________________
५६
३. व्याप्तिचिन्ता
तदनुक्तेपि गम्यते ॥१८॥ न हि तस्य प्राक् दर्शनभ्रान्तिर्या बचनेन निवर्त्यते। स्मृतिः वाचाऽदर्शने क्रियत इति चेत्। दर्शनमप्रतीयमानं नाङ्गमिति युक्तं तत्र स्मरणाधानम् । अदर्शनन्तु दर्शना भावः। स दर्शनेन बाध्यते। तदभावे सिद्ध एव इत्यपार्थक तसिद्धये वचनं।
एतदेव व्याचष्टे। यदीत्यादि। तेनेति वैधर्म्यवचने'न विपक्षे हेतोरदर्शनं 23b ख्याप्यते। तदित्यदर्शनमनुक्तेपि वैधये गम्यते। दर्शनाभावलक्षणस्यादर्शनस्य वैधर्म्यवचनात् प्रागपि सिद्धत्वात् । तस्मादपार्थकम्वैधर्म्यवचनं। _हेतोर्दर्शनभ्रान्तिविपक्षेस्ति तन्निवृत्यर्थम्वैधर्म्यवचनमिति चेदाह। न हीत्यादि। तस्येति प्रतिपाद्यस्य बैधर्म्यवचनात् प्राक्। हेतोविपक्षे दर्शनभ्रान्तिरस्ति या वैधर्म्यवचनेन निवर्त्यते। तस्मादेतद् यथा सपक्षे हेतोर्दर्शने न भ्रान्तिः किन्तु तद्विस्मृतमिति साधर्म्यवचनेन स्मर्यते। तथा स्मृतिर्वाचा वैधर्म्यवचनेनादर्शने क्रियत इति चेत्। दृष्टान्तमेव विघटयितुमाह। दर्शनमित्यादि। दर्शनमप्रतीयमानमस्मर्यमाणं न साध्यप्रतिपत्त्यङ्गमिति युक्तन्तत्रेति दर्शने वाचा स्मरणाधानं स्मृतिजननं। अदर्शनार्थन्तु न युक्तं। यस्माददर्शनन्तु दर्शनाभावो हेतो विपक्षे। स दर्शनेन बाध्यते। तदभावे विपक्षदर्शनाभावे सिद्ध एव दर्शनाभाव इत्यपार्थकन्तत्सिद्धये दर्शनाभावसिद्धये वैधर्म्यवचनं। अयमभिप्रायो दर्शनम्परोक्षत्वाद् विस्मर्येतेति तत्स्मरणार्थम्वचनं युक्तं। दर्शनाभावस्तु दर्शननिवृत्तिरूपः स च दर्शनानुभवाभावादेव प्रतिभासते (1) प्रतिभासमानस्य च किं स्मरणेन। तत्सिद्धयेऽपार्थकम्वचनं॥३ __न वै अनुपलभमानस्य पुंसस्तावतेत्यदर्शनमात्रेण विपक्षे हेतु स्तीत्येवं निश्चयो भवति देशादिविप्रकृष्टानामनुपलम्भेपि सत्त्वात् । तदर्थन्नास्तीति निश्चयोत्पादनार्थम्वैधर्म्यवचनमिति चेत्तन्न। यस्मान्न च नास्तीति वचनादप्रमाणकात् तत्प्रतिक्षिप्यमाणं नास्त्येव। कथन्तर्हि नास्तीति गम्यत इत्याह । यथेत्यादि।
___एतदुक्तम्भवति। हेतोः स्वसाध्ये प्रतिबन्धग्राहकमेव प्रमाणं साध्यायत्तताप्राहकन्तच्चेह दर्शनमभिप्रेतं यच्च साध्य एव हेतोदर्शनमिदमेव सर्वत्र विपक्षेऽदर्शनं । तेन यस्य साध्यसाधनयोः प्रतिबन्धग्राहकं दर्शनं प्रवृत्तम्विस्मृतं च तस्यैव पुंसः दर्शनादर्शनयोः प्रतीतयोः साधर्म्यवैधर्म्यवचनाभ्यां स्मरणं क्रियते नान्यस्येत्यर्थः । यदाह (1) प्रमाणं दृष्टान्ताभ्यामुपदश्यंत इति। यथा यदि नास्ति स ख्याप्यत