SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५८ प्रमाणवार्तिकस्ववृत्तिटीका (१।१७ ) माह । तत्रान्वयनिश्चयेन विरुद्धतत्पक्ष्याणां निरासः । व्यतिरेकस्यानिश्चयेन तत्पक्षशेषवदादेः ॥ ( प्रसिद्धस्तु ) द्वयोरिति हि एकत्र सिद्धस्य प्रतिषेधः । प्रसिद्धवचनेन शेषवदसाधारणयोः सपक्षविपक्षयोरपि असन्देहः । errerse प्रतिबन्धे विपक्षेऽदर्शनमात्रेण व्यतिरेके हि । व्यभिचारिविपक्षेण वैधर्म्यवचनञ्च यत् । दुभयं विरुद्धानैकान्तिकप्रतिपक्षेण वक्तव्यमिति तच्च वैधर्म्यवचनं ऐ (? अनै) कान्तिकप्रतिपक्षेण ॥ यद्यदृष्टिफलन्तश्च यदि तेन ( वैधर्म्यवचनेन विपक्षे ) ऽदर्शनं ख्याप्यते न यो निश्चय उक्तस्तं व्याचष्टे । तत्रेत्यादि । विरुद्धतत्पक्ष्याणामिति विरुद्धानां विरुद्धपक्ष्याणां च विरुद्धपक्ष्या येषां सत्त्वं विपक्षे निश्चितं सपक्षसत्त्वं सन्दिग्धं । सन्दिग्धानैकान्तिका एवैते परप्रसिद्धया त्वेवमभिधानं । व्यतिरेकस्यानिश्चयेनेति प्रकृतेन सम्बन्धः । अनैकान्तिकस्य निरास इति सम्बन्धः । तेनायमर्थः साधारणानैकान्तिकस्येति । तत्पक्षस्य च । अनैकान्तिकपक्षस्य च । शेषवदादेः । आदिशब्दात् सपक्षविपक्षयोस्सन्दिग्धस्य निरासः । यस्य सपक्षसत्त्वं विपक्षे चाद - र्शनमात्राद् व्यतिरेकस्तच्छेषवत् । प्रसिद्धस्तु द्वयोरित्या चार्य ग्रन्थमिदानीं व्याचष्टे । द्वयोरित्यादि । द्वयोरित्यनैकस्य वादिनः प्रतिवादिनो वा यः सिद्धस्तस्यप्रतिषेध: (1) प्रसिद्धवचनेन सन्दिrart: शेषवदसाधारणयोः प्रतिषेध इति सम्बन्धः ( 1 ) क्व सन्दिग्धयोरित्याह । पक्षपक्षयोरपीति शेषवतोऽसपक्षसन्देहः । असाधारणस्य तु सपक्षविपक्षयोः । तस्मान्निश्चयवचनादा चा र्येणापि प्रतिबन्ध इष्ट एव ॥ अन्यथाऽसति प्रतिबन्धे साध्यसाधनयोः । विपक्षेऽदर्शनमात्रेण व्यतिरेके आचार्येणेष्यमाणे । व्यभिचारिविपक्षेणानैकान्तिकप्रतिपक्षेण वैधर्म्यवचनं च यत् प्रतिज्ञातन्तदपार्थकमित्याकूतं । क्व पुनराचार्येण प्रतिज्ञातमित्याह । यदेत्यादि । न्या य मुखे चैतदुक्तं । यदुभयं वक्तव्यमिति साधर्म्यं वैधर्म्यं च । कस्य प्रतिपक्षेण किंमुक्तमित्याह । विरुद्धेत्यादि । साधनस्य वचनं विरुद्धप्रतिपक्षेण वैधर्म्यवचनमनैकान्तिकप्रतिपक्षेण । यद्यदृष्टिफलन्तच्च | अदर्शनमात्रफलन्तच्चेति वैधर्म्यवचनं ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy