________________
ईश्वरसेनमतनिरासः
तस्य स व्यतिरेकोऽनिश्चित इति विपक्षेऽपि वृत्तिराशङक्येत। व्यतिरेकसिद्धयदर्शनमात्रस्य हि संशयहेतुत्वात् । न सर्वाऽनुपलब्धिरेव गमिका। तस्मादेकनिवृत्याऽन्यनिवृत्तिमिच्छता तयोः स्वभावप्रतिबन्धोऽपि कश्चिदेष्टव्यः। , अन्यथाऽगमको हेतुः स्यात् ॥
(ख) त्रिरूपहेतुनिश्चयः हेतोत्रिष्वपि रूपे(षु) निश्चयस्तेन वर्णितः। असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥१७॥
426b ३-व्याप्तिचिन्ता
क. दिग्नागेष्ट: प्रतिबंधः
न ह्यसति प्रतिबन्धेऽन्वयव्यतिरेकनिश्चयोऽस्ति। तेन तमेव दर्शयन् निश्चय
न्यदेवेति पृच्छति। किं पुनरित्यादि । शेषवत्स्वरूपमाह । यस्येत्यादि । यस्य हेतोरदर्शनमात्रेणाप्रमाणकेन विपक्षव्यतिरेकः प्रसाध्यते। तस्य हेतोः संशयहेतुत्वात् संशयकारित्वाच्छेषवत्तदनुमानमुदाहृतं। किङ्कारणन्तस्य हेतोः स व्यतिरेकोऽनिश्चित इति विपक्षेपि वृत्तिराशंक्येत। किंपुनर्न निश्चित इत्याह। व्यतिरेकेत्यादि। अनुपलम्भेपि कथं संशय इत्याह। न सर्वेत्यादि। दृश्यानुपलब्धिरेव न गमिका। 23a यत एवन्नादर्शनमात्राद् व्यतिरेकस्तस्मादेकनिवृत्त्या साध्यनिवृत्त्यान्यनिवृत्तिसाधननिवृत्तिमिच्छता तयोः साध्यसाधनयोः कश्चित् स्वभावेन प्रतिबन्धस्तादात्म्यतदुत्पत्तिलक्षणोप्येष्टव्यः। न केवलमदृष्टिमात्रं । अन्यथा प्रतिबन्धानिष्टावगमको हेतुः स्यात् । व्याप्तेरनिश्चितत्वात् ।। __ यत एवन्तेन कारणेन हे'तोस्त्रिष्वपि रूपेषु पक्षधर्मान्वयव्यतिरेकेषु निश्चयो वर्णितः। आचार्य दि ग्ना गे न प्र मा ण स मु च्च या दिषु। असिद्धस्त द्वयोरपि साधनमित्यादिना। कस्य निरासेनेत्याह। असिद्धत्यादि। आद्यादित्वात् तृतीयार्थे तसि विपक्षणेत्यर्थः। ____ तत्रासिद्धविपक्षेण पक्षधर्मत्वनिश्चयो वण्णितः। विपरोतार्थाविरुद्धस्तस्य विपक्षेणान्वयनिश्चयः। व्यभिचार्यनै कान्तिकस्तस्य विपक्षेण व्यतिरेकनिश्चयः॥
अन्वयव्यतिरेकनिश्चयं च वर्णयता प्रतिबन्धोप्यर्थतो दर्शित एव। यस्मान्न ह्यसति प्रतिबन्धेऽन्वयव्यतिरेकनिश्चयोस्ति (1) तेन कारणेन तमेव तादात्म्यतदुत्पत्तिलक्षणं प्रतिबन्धन्दर्शयन्नाक्षिपन्निश्चयमाह। यस्य दोषस्य निराशे (?से)