________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१६) मान् रागोत्पत्तिप्रत्ययविशेषषेण युक्त आत्मदर्शनायोनिशोमनस्कारवत्त्वात् । तदा वक्ते (ति) अपार्थको वचनोदाहारः । तस्माद् विपक्षेऽदृष्टिरहेतुः॥
न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता।
संभाव्यव्यभिचा(र)त्वात्, स्थालीतंडुलपाकवत् ॥१५॥ न हि बाहुल्येन पक्वानां दर्शनेऽपि स्थाल्यन्तर्गतत्वेन केवलेन पाकः सिध्यति । व्यभिचारदर्शनात्। एवं एवंस्वभावसमानपाकहेतुकाः पक्वा इति युक्तम् । अन्यथा तु तदनु'मानं शेषवद्व्यभिचारि ॥
(क) शेषवदनुमान निरासः किं पुनः शेषवदिति।
यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । (तस्य) संशयहेतुत्वाच्छेषवत तदुदाहृतम् ।।१६।।
समासोवा। तदेति मादृशो वक्तेति विशेषणेप्यपार्थको वचनोदाहारः। वचनादित्यस्य हेतोरुदाहरणमनर्थकमित्यर्थः। तदा हि यो मादृशो रागोत्पत्तिप्रत्ययविशेषेण यक्तः स रागी। यथाहमित्ययमेव हेतू: स्यात् । यत एवमदर्शनमात्रात्नास्ति निश्चयस्तस्माद् विपक्षेऽदृष्टिविपक्षे हेतोरदर्शनमहेतुलिङ्गस्य व्यतिरेकनिश्चयं प्रति॥ __ स्यान्मतिः (।) विपक्षदृष्टया हेतोयभिचारो न च वीतरागे वचनं दृष्टन्तस्माददर्शनात् साध्याभावे व्यतिरेक: सिद्ध इत्यत आह।
न चादर्शनमात्रेगेति विपक्षे हेतोरव्यभिचारिता । कस्मात् (1) मम्भाव्यव्यभिचारत्वात्। सम्भाव्यो व्यभिचारो यस्य स तथा तद्भावस्तस्मात् । यद्यपि । न दृष्टो विपक्षे तथापि तत्र सम्भवो न विरुद्ध इति संम्भाव्यते व्यभिचारः । स्थाल्यन्तर्गतास्तण्डुलाः स्थालीतण्डुलास्तेषां पाकवत् ।
एतमेव दृष्टान्तं समर्थयितुमाह। न हीत्यादि। बाहुल्येन स्थाल्यन्तर्गतानां पक्वानान्दर्शनेपि न स्थाल्यन्तर्गतत्वेन केवलेन पाकः सिध्यति । मात्रग्रहणन्तु विशेषनिरासार्थं । यद् वक्ष्यत्येवन्तु स्यादिति। कुतोऽसिद्धिय॑भिचारस्य दर्शनात् । एवंस्वभावा इति ये पक्वा दष्टास्तैस्तुल्यस्वभावाः। एतैरेव पक्वैः समान: पाकहेतुर्येषान्ते पक्वा इति। अन्यथा वित्यसत्ये तस्मिन् विशेषणे। शेषोस्तीति शेषवदनिर्णीतो विषयोस्तीति यावत् । तच्च व्यभिचारि॥
किन्नै या यि को क्तं कार्यात् कारणानुमानरूपं शेषवदनुमानमिहाभिप्रेतमता