________________
२. अनुपलब्धिचिन्ता
५५
तस्मादविनाभाव्येव कार्यं कारणमनुमापयति । तत्रायत्तत्वात् । नान्यद् विपदर्शनेऽपि । सर्वदर्शनस्तु दर्शननिवृत्या भाव 7 निश्चयः । क्वचित् तथा दृष्टानां 4262 पुनर् (देश) कालसंस्कारभेदेन - अन्यथादर्शनात् । यथाऽऽमलक्यः क्षीरावसेके मधुरफला न चैवम्बहुलं दृश्यन्ते । तेन एतद् युक्तं वक्तुं मादृशो वक्ता रागादि
रागाणामात्माद्यभिनिवेशस्याभावात् । शक्त्युपयोगे हि वचनं प्रति । स एव राग उपयुक्तः स्यादात्माद्यभिनिवेशवतां सर्वेषामेव रागित्वात् । तच्च रागस्य वचनंप्रत्युपयोगित्वन्नास्तीत्युक्तं । वक्तुकामता सामान्यहेतुत्वादित्यत्रान्तरे ।
1
तस्मादित्यादि निगमनं नान्तरीयकमेवेति कारणेनाविनाभाव्येव । तत्प्रतिबन्धात् । तत्र कारणे आयत्तत्वात् । नान्यदप्रतिबद्धं विपक्षे हेतोरदर्शनेपि । अर्वाग्दर्शनस्यादर्शनमात्रेणानिश्चयात् । सर्वदर्शिनस्तु दर्शननिवृत्त्या स्यान्निश्च - यस्तस्य हि सर्वज्ञेयव्यापि ज्ञानं । एतदेवाह । सर्वदर्शन इत्यादि । किम्पुनरद.र्शनमात्रान्नाभावनिश्चय इत्याह । क्वचित्तथेत्यादि । तेन प्रकारेण दृष्टानां प्राक् । पुनर्देशकालसंस्कारभेदेनेति भेदशब्दस्य प्रत्येकं सम्बन्धः । संस्कारः क्षीरावसेकादिः । पूर्वदृष्टप्रकारादन्यथा स्यात् । किमिवेत्याह । यथामलक्य इति । संस्कारभेदस्यैतदुदाहरणन्न चैवम्बहुलमिति न मधुरफला बहुलन्दृश्यन्ते । कषायफलानां बाहुल्येन दर्शनात् । न चेदानीं बहुलं मधुरफलानामदर्शनात् । क्वचित्सम्भविनो मधुरफलस्य प्रतिक्षेपः । तथा देशभेदेन पिण्डखर्जूरस्य सम्भवः । कालभेदेन पुष्पादेः । आमलकीदृष्टान्तेन चैतदाह । यथामलक्यः क्षीरादिसंस्कारादन्यथा भवन्ति । तथा रागादियोग्यश्चित्तसन्तानस्तत्त्वाभ्यासाभिसंस्काराद् योग्यो भवति । अभ्यासाच्च नैरात्म्यालम्बनमेव विज्ञानं स्पष्टाभम्वैराराग्यमुच्यते । नैरात्म्य दर्शनादात्माद्यभिनिवेशविगमेन रागाद्यनुत्पत्तेः । सर्वधर्मक्षणिकत्वाद्यालम्बनं च ज्ञानं स्पष्टाभं सर्वज्ञत्वं चोच्यते । सर्वाज्ञानविगमात् । तस्मात् तत्त्वाभ्यासनिमित्ता स्फुटाभत्वबृद्धिरेव तत्त्वसाक्षात्करणेन प्रत्यक्षत्वकारिणी रागादियोग्यस्वभावतां ज्ञानस्य बाधते । ततश्चान्यथादृष्टमपि हेतुबलादन्यथा भवेदपि ( 1 ) तेन यदि नाम रागारहिते क्वचिद् वचनं न दृष्टन्तावता सर्वत्र वीतरागे वचनेन न भाव्यमिति नास्ति निश्चयः । ततश्चानिश्चितव्यतिरेकाद् वचनमात्रान्न रागद्यनुमानं । यत एवन्तेन कारणेनैतद्युक्तम्वक्तुं मादृशो वक्ता । योहमिवायोनिशोमनस्कारान् । तदेवाह । रागोत्पत्तीत्यादि । कः पुनरसावित्याह । आत्मेत्यादि । आत्मदर्शनं सत्का य दृष्टिः । नित्यसुखादिविपर्यासोऽयोनिशो मनस्कारः। द्वन्द्वसमासश्चायं । आत्मदर्शनमेवायोनिशोमनस्कार इति विशेषण
22b