________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४)
__ वक्तर्यात्मनि रागादिदर्शनाद् अन्यत्र तदनुमाने हि अतिप्रसङ्गः। व्यभिचारात् अनन्यानुमाने इहाव्यभिचार इति को निश्चयः ? करणगुणवक्तुकामते वचनमनुमापयेत्। रागोत्पादनयोग्यतारहिते वचनादर्शनात्। तदनुमानेऽप्यतिप्रसङ्ग इत्युक्तम्। रागस्यानुपयोगे हि कथं तच्छक्तिरुपयुज्यते। शक्त्युपयोगे हि स एवोपयुक्तः स्यादिति तन्नास्तीत्युक्तम्।
दोषवस्वसाधने न किंचिद् अनिष्टं । __ स्यान्मतिः (1) वक्तर्यात्मनि रागादिदृष्टस्ततः सपक्षे सत्त्वदर्शनमात्रेण वीतरागाभिमतेष्वप्यनुमानम्भविष्यतीत्याह। वक्तर्यात्मनीत्यादि। अन्यत्र तदनुमान इति वीतरागाभिमते रागाद्यनुमानेऽतिप्रसंगः। वक्तर्यात्मनि यावान् कश्चिद् विशेषो दृष्टस्तस्य सर्वस्यान्यत्रानुमानप्रसङ्गः । आत्मनि दृष्टस्य श्यामगौरतादिलक्षणस्य विशेषस्य व्यभिचारात्। अनन्यानुमान इति रागादन्यस्यात्मगतस्य विशेषस्यानुमाने। इहेति साध्याभिमते रागादावप्यव्यभिचार इति को निश्चयः। नैव कश्चित् ।
प्रतिबन्धाभावाद् रागवचनयोः । यस्मादात्मनिदर्शनान्नानुमानन्तस्मात् करण22a गुणवक्तुकामते वचनमनुमापयेत् ।' करणगुणस्ताल्वादीनाम्पाटवादि: स च
वक्तुकामता चेति द्वन्द्वः। द्वितीयाद्विवचनमेवैतत् । रागोत्पादनयोग्यतारहिते पाषाणादौ वचनादर्शनात्। सैव वचनादवसीयत इत्याह। रागेत्यादि। तदनुमान इति योग्यतानुमानेऽतिप्रसंगः। तथा हि यथा पाषाणादौ रागोत्पादनयोग्यताविरहस्तथा सर्वपुरुषधभैरपि ततस्तथाभूते वचनादर्श'नाद् यदि रागोत्पादनयोग्यतानुमानमेवं सर्वपुरुषधर्मस्य।
अथ मतं (1) रागोत्पादनयोग्यता हि रागवचनयोरेकङ्कारणन्तदनुमाने च रागोप्यर्थतोनुमितो भवति तेन योग्यता एवानुमानं न सर्वेषां पुरुषधर्माणामित्यत्राह (1) रागस्येत्यादि। रागस्यानुपयोगे वचनं प्रति ताल्वादिव्यापारादेव शब्दनिष्पते :। कथन्तच्छक्तिः रागशक्ति (र) वचनं प्रत्युपयुज्यते। अथ ताल्वादिव्यापारकाले रागशक्तेरपि वचनम्प्रत्युपयोग इष्यते (1) ततश्चाद्यवर्णनिष्पत्तिकाले रागस्यापि निष्पत्तिरेकसामग्र्यधीनत्वात् (।) तस्य च रागस्य सन्तानवाहित्वन्तथा च द्वितीयादिवर्णनिष्पतौ राग एवोपयुक्तस्स्यात् । तदाह (1) शक्त्युपयोगे हि स एवोपयुक्तः स्यादिति। न च रागस्योपयोगोस्तीत्युक्तं प्राक्। __ अथवात्मात्मीयाभिनिवेशरहितानां रागस्यानुपयोगे वंचनप्रति। कथं तच्छक्ती रागशक्तिर्वासनाख्यात्मात्मीयाभिनिवेशलक्षणा वचनम्प्रत्युपयुज्यते। वीत