________________
. २. अनुपलब्धिचिन्ता
५३
ग्रहणे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिता। तथा हि मैत्र्यादयः सत्त्वधर्मालम्बना इध्यन्ते। एताश्च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः। नैवं रागादयः। विपर्यासाभावेऽभावात् । कारुणिकस्य निष्फल आरम्भोऽविपर्यासादिति चेत्। न। परार्थस्यैव फलत्वेनेष्टत्वात्। इच्छया हि फललक्षणत्वम् ।
सर्वथाऽभूतासमारोपा निर्दोषः। तदन्येन वीतरागस्य दोषवत्त्वसाधने न किञ्चिदनिष्टम् ।
निरूपणमात्रेण। अभ्यासबलोत्पादितेति पूर्वपूर्वसजातीयक्षणोत्पन्ना भवत्येव करुणा। आगमेनापि संस्यन्दयन्नाह। तथा हीत्यादि। आदिशब्दाद् अनालम्बना गृह्यन्ते। सत्त्वालम्बना पृथग्जनानां। धर्मालम्बना आर्याणां। अनालम्बना ग्राह्यग्राहकाभिनिवेशविगतानां बद्धबोधिसत्त्वानां । मैत्र्यादयो मैत्रीकरुणामदितोपेक्षा इष्यन्ते सिद्धान्ते। . ननु च सत्त्वालम्बना एव पृथग्जनेनाभ्यस्तास्तास्तत्कथं धर्माद्यालम्बना उभ्यन्त इत्यत आह।
एताश्च मैत्रीकरुणामुदितोपेक्षाः। सजातीयाभ्यासवृत्तयः पूर्वपूर्वसदृशक्षणंबलेनोत्पत्तेः। एतावांस्तु विशेषो यावत् सत्त्वम्पश्यति तावत्सत्त्वालम्बनाः। यावद्धर्मन्तावद् धर्मालम्बनाः। न रागापेक्षिण्य इति नानुशयेन सत्त्वेषु प्रवर्तन्त' इत्यर्थः ।
ननु दुःखविशेषदर्शनमात्रेणाभ्यासबलोत्पादिनीत्यनन्तरमेवायमर्थ उक्तः ।
सत्यं । करुणामेवाश्रित्याधुना सर्वाण्येवेति विशेषः। आत्मदर्शननिवृत्तावपि तर्हि करुणावदभ्यासाद् रागादयः प्रवर्तन्त इत्याह। नैवं रागादयस्सजातीयाभ्यासवृत्तयो येनात्मदृष्टिनिवृत्तावपि प्रवर्तेरन् । आत्मादिविपर्यासाभावेऽभावात् ।
कारुणिकस्य निष्फलः परार्थ आरम्भोऽविपर्यासादात्माद्यभिनिवेशाभावेन स्वार्थस्यैवाभावात्। नायन्दोषः परार्थस्यैव फलत्वेनेष्टत्वात्। इष्टो नाम परार्थस्तथापि.कथं फलत्वमिति चेत् । आह। इच्छेत्यादि। इच्छया लक्ष्यत इतीच्छालक्षणमिच्छाविषयत्वादित्यर्थः। यदिष्टन्तत्फलमिति यावत्।।
नन्वहमिति बुद्धिरहितस्य कथं परार्थापि प्रवृत्तिरिति चेत् (1) न (1) अक्लिष्टा ज्ञानसभावात् प्रवृत्तिरित्येके। योगबलेन शुद्धलौकिकचित्तसम्मुखीकरणादित्यपरे। विनेयानां तथा प्रतिभासनादित्यन्ये।
सर्वथेत्युपसंहारः । यदि वचनाद् वीतरागस्य वक्तुकामता साध्यते अथ करुणा तेन सराग इत्युच्यते। सर्वथाऽभूतासमारोपाद वीतरागादिनिर्दोषः । दोषस्वभावस्य रागादेरवश्यभावात। तदन्येन रागादिभ्योन्येन वक्तुकामतादिना वीतरागस्य