________________
५२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४)
भिनेवेशाक्षिप्तं सात्रवधर्मविषयमाहुः।
नैवं करुणादयः। अन्यथाऽपि सम्भवात् इति निवेदयिष्यामः। यथा रक्तो ब्रवीति तथा विरक्तोऽपि। एवं न वचनमात्रात् नापि विशेषाद् प्रतिपत्तिः। अभिप्रायस्य दुर्बोधत्वात्। व्यवहारसंकरेण सर्वेषां व्यभिचारात्। प्रयोजनाभा
वेऽवचनमिति चेत्। न। परार्थत्वात्। 425b न युक्तो वीतरागत्वादिति चेत् । न। करुणयाऽपि प्रवृत्तेः।' सैव करुणा
राग इति चेत् । इष्टम्। अविपर्यासोद्भवत्वात् अदोषः। करुणा असत्यप्यात्म
मभिनिवेशस्तेनाक्षिप्तं जनितं। सास्त्रवधर्मविषयमिति पञ्चोपादानस्कन्धालम्बनं चेतसोभिष्वङ्गं रागमाहुर्विद्वांसः । . स्यान्मतं (।) वीतरागाभिमतानां मैत्रीकरुणादय इष्यन्ते। ते च सत्वालम्बनत्वाद् आत्मादिदर्शनप्रवृत्ताः सत्त्वानुनयप्रवृत्त्या चाभिष्वङ्गस्वभावास्ततो वीतरागा अपि रागिणः प्रसक्ता इत्यत आह। नैवं करुणादय इति (1) न सत्त्वालम्बना वीतरागाणां करुणादयः। अन्यथापि सम्भवात्। (धर्मालम्बनानामपि सम्भवात्) एतच्चानन्तरमेव निवेदयिष्यामः। अत्र वचनाद् रागानुमाने क्रियमाणे वचनमात्रादप्रतिपत्तिरित्यनेन सम्बन्धः । यस्माद् यथा र क्तो ब्रवीति तथा विरक्तोपीति प्रक्षीणरागोपि। न वचनमात्राद् रागानुमानं किन्तर्हि वचनविशेषात् । यो रागेणैव जन्यत इत्याह। नापि विशेषादिति। किङ्कारणम् (1) अभिप्रायस्य दुर्बोधत्वात्। विरक्तो हि रक्तवच्चेष्टते। रक्तोपि विरक्तवदित्यभिप्रायो दुर्बोधः । ततश्च व्यवहारसं करण सर्वेषामिति वचनानां । वचनमात्रस्य वचनविशेषस्य च रागादेलिङ्गत्वेनोपनीतस्य व्यभिचारात्। न विशेषादपि रागाद्यनुमानं। यदुक्तन्तथा विरक्तो ब्रवीतीति तत्रोत्तरमाशंकते। प्रयोजनेत्यादि । वचनोच्चारणं व्यव हारः। न हि वीतरागस्य वचनोच्चारणे फलमस्ति तथा चाव्यभिचारो रागवचनयोरिति भावः। नेत्या चा यः। न प्रयोजनाभावः परार्थत्वाद् व्याहारस्य ।
न युक्त इत्यादिपरः । वीतरागो हि परेष्टव्यासक्तो न च सक्तिमन्तरेण परार्थप्रवृत्तिरस्तीति भावः । नैतदेवं। करुणयापि प्रवृत्तेः। सैव करुणा राग इति चेत्। तदेतदिष्टं करुणा राग इति नामकरणं। सत्त्वदर्शनविपर्यासायातत्वात्
करुणापि रागात्मको दोष इति चेदाह। अविपर्यासेत्यादि। अविपर्यासोद्भवत्व21b मेवाह। असत्यप्यात्मग्रहण इत्यादि। दुःख विशेषदर्शनमात्रेणेति संस्कारदुःखता
1 In the margin.