________________
५१
२. अनुपलब्धिचिन्ता समग्राण्येव हि हेतवो योग्यतामनुमापयन्ति, असमग्रस्यकान्त्येनासामर्थ्याद् । 425a यथा देहेन्द्रियबुद्धिमत्त्वाद् रागाद्यनुमानम्। आत्मात्मीयाभिनिवेशपूर्वका रागादयः, अयोनिशोमनस्कारपूर्वकत्वात् सर्वदोषोत्पत्तेः। __ देहादीनां हेतुत्वेऽपि असामर्थ्यात् केवलानां विपक्षे वृत्त्यदृष्टावपि शेषवदनुमानात् संशयो भवति। तथा- .
विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत् ॥१४॥ न हि चलनवचनाद्येव रागादिकार्य, वक्तुकामताहेतुकत्वात् । सैव राग इति चेत् । इष्टत्वान्न किञ्चिद बाधितम् । रागं हि नित्यसुखात्मात्मीयदर्शना
योनिशः। योनि योनि मनस्करोतीति “संख्यकवचनाच्च वीप्साया"मिति शस् प्रत्ययो वा। तथाभूतश्चासौ मनस्कारश्चेति योनिशोमनस्कारो नैरात्म्यज्ञानं । तद्विरुद्धमात्मादिज्ञानमयोनिशोमनस्कारस्तत्पूर्वकत्वात् सर्वरागादिदोषोत्पत्तेः॥ ___ ननु देहेन्द्रियबुद्धयोपि रागादिना हेतवस्तद्रहितेषु रागाद्यदर्शनादित्याह । देहादीनां हेतुत्वेपीति केवलानामित्ययोनिशोमनस्काररहितानां। रागादौ साध्ये। रागादिरहिता उपलखण्डादयो विपक्षस्तत्र हेतुर्देहादिमत्त्वस्य या वृत्तिस्तस्या' अदृष्टावपि। विपर्यये बाधकप्रमाणाभावाच्छेषवदनुमानमस्माच्च संशयो भवति 21a न निश्चयः। यथा चैतदनन्तरोक्तं न प्रमाणन्तथा विपक्षे हेतोरदृष्टिमात्रेण कार्यसामान्यस्य कार्यमात्रस्य दर्शनात्। हेतुॉनम्विशिष्टकारणानुमानं प्रमाणाभं प्रमाणाभासमनैकान्तिकमिति यावत्। किमिव (।) वचनाद्रागितादिवत्।
नन सर्वमेव वचनं रागादिकार्यमिति कथन्तत्कार्यसामान्यमित्यत आह । न होत्यादि। ओष्ठयोश्चलनं स्पन्दो वचनकाले च तस्यावश्यंभावात् । आदिशब्दाद् अन्यस्यापि वचनकालभाविनो मुखविकारादेर्ग्रहणं। अविशिष्टविवक्षामात्रं वक्तुकामता सामान्यन्तदेव हेतुर्येषां स्पन्दादीनान्ते तथोक्तास्तद्भावस्तस्मात् । सैव वक्तुकामता राग इति चेत् । आसक्तिरूपत्वाद् रागस्येति मन्यते। आ चा र्य आह । इष्टत्वान्न किंचिद् बाधितं । वक्तुकामता कार्यस्य वचनस्यष्टत्वान्न किञ्चिद् अनिष्टं। न च वक्तुकामता रागः (,अ)पि तु नित्यसुखात्मात्मीयाकारं यद्दर्शन
1 Panini 5:4:43.