________________
५०
प्रमाणवात्तिकस्ववृत्तिटीका (१।१३) एतेन पिपीलिकोत्सरणमत्स्योद्वर्तनादिना वर्षाद्यनुमानमप्युक्तम् । तत्रापि वर्षहेतुरेव भूतपरिणामः पिपीलकादिव्यभिचारादेहेतुः॥
हेतुना (त्व)समग्रेण यत् कार्यमनुमीयते । तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥१३॥
यानुमानन्तदपि कार्यलिङ्गजमेवेति [प्र मा ण] वि नि श्च येऽभिहितं । 20b तस्माद्धेतुत्रयव्यतिरेके'ण नान्यो हेतुर्गमकोस्तीति स्थितं ।
एतेनेति रसादे रूपाद्यनुमानस्य कार्यलिङ्गजत्वकथनेन । पिपीलिकोत्सरणन्तासां गृहीताण्डानामन्यत्र सञ्चरणं। मत्स्यानामुद्वर्त्तनम्मत्स्यविकारः । आदिशब्दाद् विद्युद्विकासमण्डूकरुतादिपरिग्रहः। वर्षाद्यनुमानमित्यत्रापि आदिशब्दाद् वाताद्यनुमानमुक्तं। यथा तदपि कालिङ्गजहेतुधर्मानुमानात्। __ एतदेवाह। तत्रापीत्या.द। तत्रापि पिपीलिकोत्सरणादौ। भूतपरिणाम एव वर्षहेतुरिति। एवकारो भिन्नक्रमः। वर्षहेतुरेव भूतपरिणामः। पिपीलिकासंक्षोभादेरुत्सरणादिलक्षणस्य हेतुः। तस्माद् यथाभूताद् भूतपरिणामाद् वर्षहेतु: पिपीलिकादीनाम्विकारो जातः। तथाभूतस्य हेतोरनुमानात् समानकालवर्षाद्यनुमानं। अन्यत्र तु योग्यतानुमीयते न तु वर्ष एव प्रतिबन्धसम्भवेन व्यभिचारात् । तस्मात् समग्रादपि कारणकलापान्नास्ति कार्यानुमानं केवलं योग्यतानुमानमेव॥
ये तु मी मां स का दयोऽसमग्रादपि कारणात् कार्यमनुमिमते। तेऽत्यन्तन्यायबहिष्कृता इत्येतद् दर्शयन्नाह (1)
हेतना त्वसमग्रणेत्यादि। असमग्रेणेति विकलेन। शेषवदनमानमनैकान्तिंकमित्यर्थः । कूतो सामर्थ्यात । अस्य व्याख्यानं समग्राण्येव हीत्यादि । कार्यस्य तावत सर्वथा नानुमानं । योग्यतामप्यनुमापयन्ति समग्राण्येवानुमापयन्तीत्येतदपिशब्देनाह। . असमग्रस्यैकान्तेनासामर्थ्यादित्यु (त्त) रोत्तरपरिणामेनाप्यसामर्थ्यान्न पाक्षिकमपि कार्यानमानं। वेहाद रागानुमानवद् इत्यस्योदाहरणस्य व्याख्यानं। यथेत्यादि। देहश्चेन्द्रियाणि च बुद्धय श्चेति द्वन्द्वः । रागादिमानयं पुरुषो देहवत्त्वादिन्द्रियवत्त्वात् बुद्धिमत्त्वात् । एवन्देहादिभ्यो रागाधनुमानं। आदिशब्दाद् द्वेषमोहादिपरिग्रहः । सूत्रे तु देहरागग्रहणमुपलक्षणं । न हीन्द्रियाद्येव कारणं रागादेः । यस्मादात्मात्मीयाभिनिवेशपूर्वका रागावयः। आत्मन्यात्मीये चाहम्ममेति योभिनिवेशः स पूर्वः कारणं येषां रागा दीनान्तेन तथोक्ताः। अयोनिश इत्याद्यस्यैव समर्थनं । योनिः पदार्थानामनित्यदुःखानात्मादि। सम्यग्दर्शनप्रसतिहेतुत्वात्। तं शंसत्यालम्बत इति