________________
२. अनुपलब्धिचिन्ता
४६
इति तत्रापि अतीतानामेककालानांच गतिः नानागतानां, व्यभिचारात् । तस्मादियमपि कार्यलिङ्गजा। तेन नान्यो हेतुर्गमकः । अप्रतिबद्धस्वभावस्याविनाभावनियमाभावात्।
ल्लिङ्गत्वेनाभिमतो रस उत्नस्तथाभूतमेव हेतुमनुमापयन् गमयन् समानका लं रूपं गमयति। तेनायमों हेतुनिश्चय एवेदृशो नान्यः । ___ न पुनरनुमितात् कारणात् पश्चात् कार्यानुमानं। यतश्च कार्यजनकत्वेनैव हेतुधर्मनिश्चयो नान्यथा तेनैवाह । इति तत्रापीत्यादि। इति अनेन द्वारेण। तत्रापि रसादे रूपाद्यनुमानेऽतीतानामेककालानां च गतिः। रसोपादानसमानकालभाविनोऽतीताः। लिङ्गभूतरससहभाविन एककालास्तेषाङ्गतिः । नाऽनागतानाम्वर्तमानेन लिंगेनानुमानं व्यभिचारात् । अनागतं हि कारणान्तरप्रतिबद्धन्तत्र प्रतिबन्धवैकल्यसम्भवान्न भवेदपि। यच्चाद्योदयात् श्वः सूर्योदयाद्यनुमानन्न तदनुमान नियामकलिङ्गाभावात्। अद्य गर्दभदर्शनात् श्व: सूर्योदयानुमानवत् । तस्मादियमपि रसादे रूपादिगतिः कार्य लिङ्गजेत्यनुमानं । यतश्च साध्यायत्तत्वेन हेतुर्गमकस्तेन कारणेन त्रिविधाद्धेतो न्यो हेतुः संयोग्यादिर्गमकोस्ति । कस्मातादात्म्यतदुत्पत्तिभ्यां लिङ्गिन्यप्रतिवद्धस्वभावस्याविनाभावनियमाभावात्।
एतदुक्तम्भवति। न तावदश्लिष्टानां संयोगोस्ति। श्लिष्टानामपि कि संयोगेन स्वहेतुभ्यः एव श्लिष्टानामुत्पत्ते ः। तस्मान्न संयोगवशाद् गमकत्वमप्रतिबद्धत्वात्। घटघटयोरिव । तथा पृथसिद्धानान्न समवायः । अपृथसिद्धानामपि किं समवायेन स्वहेतुभ्य एवोपर्युपरिभावेन निष्पत्तेस्तेन न समवायेनापि गमकत्वं (1) साध्यायत्तत्वाभावान्न च समवायोस्तीति वक्ष्यति । अत एवैकार्थसमवायिनोरभाव इति पूर्वमेवोक्तं रसाद्यनुमाने। विरोधी चानुपलब्धावन्तर्भावितः। ___ यच्च नै या यि कोक्तं “पूर्ववच्छेषवत्सामान्यतो दृष्टं चानुमान' [न्यायसूत्रं १ ।११५] । तत्र पूर्ववत् कारणात् कार्यानुमानं । तच्च व्यभिचारीति प्रतिपादितं । शेषवदनुमानं च कार्यात् कारणानुमानं तदिष्टमेव शास्त्रकृता। सामान्यतो दृष्टन्त्वनुमानं यदन्यत्र धर्मिणि साध्यसाधनयोर्व्याप्तिन्दृष्ट्वान्यत्रानुमानं । यथा देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वाऽदित्यस्यापि देशान्तरप्राप्त्या गत्यनुमानं। एतदपि कार्यलिङ्गजमेव। देशान्तरप्राप्तेर्गतिकार्यत्वात्। सर्वमेवानुमानं सामान्यतो दृष्टमेवेति स्वयमेवा चा र्यस्तृतीये परिच्छेदे वक्ष्यति।
यदप्यु द्यो त क रे ण' सामान्यतो दृष्टमुदाहृतं (1) यथा वलाकातस्तो
1 Nyāyavārtika 1: 5.