________________
४८
प्रमाणवात्तिकस्ववृत्तिटीका (१।१२) तत्र हेतुरेव तथाभूतोऽनुमीयते। तस्य हेतुः। तथा हि
शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् ।
इत्यती(तैककालानां गतिस्तत्) कार्यलिङ्गजा ॥१२॥ प्रवृत्तशक्तिरूपोपादान कारणस्य सहकारिप्रत्ययो रसं जनयति। इन्धनविकारविशेषोपादानहेतुसहकारिप्रत्ययः सन् धूमजननतुल्यवत् । तथा हि शक्तिप्रवृत्तम्। स्वकारणस्य फलोत्पादनाभिमुख्येन विना न रस (उत्पद्यते)। सैवान्यकारणम्। रूपोपादानहेतूनां प्रवृत्तिकारणम्। रसोपादानकारणप्रवृत्तिरपि रसोपादानकारणप्रवृत्तेः सहकारिणी। तस्मात् यथाभूताद्धेतोरुत्पन्नस्तथाभूतमनुमापयन् रूपमनुमापयति।
ङ्गारादीन्धनविकारानुमिति : तद्वत् ।। . ननु च रसकार्येणानुमितात् कारणात् सकाशात् समानकालिनः कार्यस्यानुमानमिदं न तु हेतुधर्मानुमानमित्यत आह । तत्रेति (1) रसाद् रूपे प्रतिपत्तौ हेतुरेव तथाभूत इति रूपजननसम्बन्धोनुमी यते (1) यस्मिन्ननुमीयमाने कार्यान्तरमपि तद्विशेषणन्निश्चितम्भवति। न त्वनुमितात् कारणात् पश्चात् कार्यान्तरमनुमेयं । कुत इत्याह। हि यस्मात् । प्रवृत्ता न प्रतिबद्धा शक्तिर्यस्य तत् प्रवृत्तशक्ति । तथाभूतं च तद्रूपोपादानकारणं चेति तथोक्तं । तस्य सहकारिप्रत्ययः सन् । रसहेतू रसं जनयति । तथाभूते च हेतावनुमितेर्थाद् रूपानुमानं रूपरसयोरेकसामग्र्यधीनत्वात् । इन्धनविकारविशेषो भस्माङ्गारादिः। तस्योपादानं काष्ठं तस्य सहकारिप्रत्ययोग्निः । तस्य यथा धूमजननन्तेन तुल्यन्तद्वद् रूपरसयोरेकसामग्र्यधीनत्वं । ___ तथा होत्यादिना समर्थयते शक्तिप्रवृत्तेति सूत्रं ।' अस्य व्याख्यानं स्वकारणस्येत्यादि। स्वकारणस्येति रसस्य यत् स्वकारणन्तस्य फलोत्पादनं प्रतीतिर - सोत्पादनं प्रत्याभिमुख्येनानुगुण्येन विना न रस उत्पद्यते। सैवेति शक्तिप्रवृत्तः । अन्यकारणमित्यस्य व्याख्यानं रूपोपादानेत्यादि। रूपस्य य उपादानहेतवः पूर्व
लक्षणसङ्ग्रहीता रूपपरमाणवस्तेषां रूपजननम्प्रत्याभिमुख्यं प्रवृत्तिस्तस्याः कारणं । 2ob रसहेतुनैव सहकारिणा रूपोपादानस्य स्वकार्य प्रत्याभिमुख्यात्। सापि र सोपा
दानकारणप्रवृत्ती रूपोपादानकारणस्य रूपजननम्प्रति या प्रवृत्तिस्तया सह कत्तुं शीलं यस्या रसोपादानकारणप्रवृत्तेः सा तथोक्ता। यत एवन्तस्माद् यथाभूताखेतोरिति प्रवृत्तशक्तिरूपोपादानकारणसहितात् पूर्वक्षणसंगृहीताद् रसा
1Pramana-Samuccaya.