SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २. अनुपलब्धिचिन्ता ४७ रूपं जनयति न तेनैव रसादिकं जनयति तेषां परस्पराभेदप्रसंगात्। नाप्यन्येनान्यं जनयति तस्य स्वभावभेदप्रसंगात् । । नैष दोषो यस्मात् । न तत्र रूपस्य पूर्वमेक कार्यजनकत्वं येनायन्दोषः स्यात्। किन्त्वेककालमनेककार्यजनकत्वमेव। ततस्तस्यैवोत्पत्तिदर्शनात् । न च कारणस्य कार्याभाव एव कारणत्वं येनानेकमेकस्मादुत्पद्यमानमेकं प्रसज्येत किन्तु कार्योत्पत्तौ प्राग्भाव एव तस्य कारणत्वं लोके। यथा चैककार्योत्पत्तौ तस्य प्राग्भावकारणत्वन्तथा कलापोत्पत्तावपि दृष्टत्वात्। यद्वा येनैव स्वभावेन रूपं रूपं जनयति तेनैव रसादिकमपि स्वरूपभेदस्त्वेषामुपादानभेदकृतो न सहकारिकृतः । तथा हि वायौ स्पर्शसद्भावेपि रूपाद्यभावाद् रूपाद्यनुत्पत्तिः। अग्नौ च रूपादिसद्भावेपि रसाभावाद् रसानुत्पत्तिः। अप्सु रसादिभावेपि गन्धाभावाद् गन्धानुत्पत्तिस्तेन रसादेनियतं कारणं रसादिरेवावसीयते । नियतं च कारणमुपादानकारणं समानजातीयमभिन्नसन्तानति वा। तस्मादुपादानकारणभेदाद् रूपादीनां स्वभावभेदः। यत्पुनरुच्यते। तत्रानेकशक्तीनां समुच्चयः। तेन रूपमेकया शक्त्या रूपं जनयत्यन्यान्यया रसादिकमिति । ___ तदयुक्तम् (1) अनेकशक्तिद्वारेणाप्ये'कस्यानेककार्यकारणाभ्युपगमेऽनेकत्व- 19b प्रसङ्गोऽनिवारित एव भावस्यानेकशक्तीनामेवानेकस्वभावत्वात्। अभिन्नत्वाच्च शक्तीनां शक्तिभेदे रूपस्य भेदप्रसङ्गः। भेदे वा शक्तीनां रूपस्याकारकत्वप्रसङ्गात् । न च शक्तियोगात् कारकत्वमशक्तस्य शक्तियोगाभावात् । शक्तस्यापि किं शक्तियोगेन स्वरूपेणैव कारकत्वाच्छक्तेश्च कारकत्वं न स्याच्छक्तियोगाभावात्। अथ शक्तित्वान्न सा शक्तिमपेक्षते (1) भावोपि तर्हि श ()क्तत्वात् किमिति शक्तिमपेक्षते। __ योपि मी मां स को मन्यते । भावस्य स्वरूपातिशय एव श क्तिः सा च भिन्नाभिन्ना। यतो भावे गृह्यमाणे शक्तिर्न गृह्यतेऽतो भावाद् भिन्ना। कार्यान्यथानुपपत्त्या तु सा भावस्याभिन्नाऽन्यथा भावस्य कारकत्वन्न स्यात्। तदुक्तं (1) "शक्तयः सर्वभावानां कार्यार्थापत्तिकल्पिता" इति (1) सोपि निरस्तः। एकस्याः शक्तभिन्नाभिन्नरूपत्वविरोधात्। किं चार्थापत्त्या कार्यात् प्राग्भाविन एव भावस्याभिन्ना शक्तिः कल्प्यतां इति प्राग्भाव एव शक्तिः (1) स च प्रत्यक्षसिद्ध इति कथं न शक्तिः प्रत्यक्षा। केवलं सा कार्यदर्शनान्निश्चीयते। तस्मात् कार्याद् रसादेः कारण धर्मानुमानाद् अस्य कार्यहेतावन्तर्भावः। धूमेस्धनविकारवदिति। यथा धूमादग्न्यादिसामग्र्यनुमितौ भस्मा-.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy