________________
४६
प्रमाणवात्तिकस्ववृत्तिटीका (१।११)
न चाप्रमाणमियन्ततो लिङ्गान्तरप्रसंग इत्याह। सापीत्यादि। सापि गतिरिति सम्बन्धः। रूपादेः किम्विशिष्टस्यैकसामग्र्यधीनस्य। रसस्य जनिका या सामग्री तस्यामेव सामग्र्यामायत्तस्य रसतो लिङ्गाद्या गतिः (1) सा हे तुधर्मानुमानेन। रसस्य यो हेतुः पूर्वमपादानन्तस्य यो धर्मों रूपजनकत्वन्तस्यानुमानेन । तेनायमर्थो रसात् सकशात् तद्धेतोरससमानकालभावि रूपजनकत्वन्निश्चीयते। एवं हि तस्य रससमानकालभावि रूपजनकत्वं निश्चीयते। यदि समानकालभाविनो रूपस्यापि निश्चयः स्यात्तेनातीतैककालानामेकैव गतिः कार्यलिङ्गजा।
नन्वनभिहिताद् रसहेतोः सकाशात् पश्चात्समानकालस्य रुपस्यानुमानं हेतोः कार्यानुमाने व्यभिचारात्। कार्योत्पादनयोग्यतानुमाने च न रससमानकालस्य रूपस्यानुमानं स्यात्। अनुमितानुमानप्रतीतेरभावाच्च। तेन यदुच्यते .(।) यदातीतानां गतिस्तदा कार्यश्च तल्लिङ्गश्च (।) तस्माज्जातेति कार्यलिङ्गजा (।) यदा तु समानकालानाङ्गतिस्तदा कार्य लिङ्गं यस्य हेतुधर्मानुमानस्य तत्कार्यलिङ्गन्तस्माज्जाता कार्यलिङ्गजेति तदपास्तं। [तत्र परे मा...] चावयविद्रव्ये रूपादयो गुणा व्यवस्थितास्तेन तत्र रूपादेरसतो गतिर्युक्ता। न बो द्धा नां रूपा
दिव्यतिरेकेणावयविनोऽनभ्युपगमात् न धर्मिणोऽभावात् । धर्मिणमन्तरेण चानुमाने 19a रसतो रूपादेः सर्वत्रानुमानप्रसङ्गात् ।' असमुदायश्च साध्यः स्यात् । अपक्षधर्मश्च
हेतुः स्यात् । नापि हेतुधर्मानुमानं युज्यते रूपादिकार्यत्वेन रसादेरप्रतिपन्नत्वात् । न च क्षणिकपक्षमनिश्चित्यैवमुच्यते । क्षणिकत्वे हि रूपादे: समानजातीयकार्यत्वं स्यान्न रसादिकार्यत्वं प्रतिबन्धग्राहकाभावात् । न क्षणानामनुमानानुमेयव्यवहारः सम्बन्धानिश्चयात्। सन्तानाश्रयेण त्वनुमानादिव्यवहारे रूपादिसन्तानानां न परस्परं कार्यकारणभावः प्रतिपन्न इति कथमनुमानानुमेयव्यवहार इति।
एवम्मन्यते (1) न सर्वत्ररसादे रूपाद्यनुमानमपि त्वाम्रादौ धर्मिणि। तत्र च रूपादीनां परस्पराविनिर्भागर्भाग (?) नियमः प्रतीयत एव (1) स च प्रतिबन्धहेतुकोऽन्यथा घटपटादीनामपि परस्पराविनिर्भागनियम: स्यात्। प्रतिबन्धश्च तेषां न तादात्म्यं भेदेन प्रतीतेर् (1) नापि तदुत्पत्तिः समानकालत्वात् । न चैकार्थसमवायस्तेषां यतो न तावदसमवेतानां समवायबलादेकार्थसमवायः समवायस्यैवाभावात्। अतिप्रसङ्गाच्च। समवेतानामपि किं समवायेन स्वहेतुभ्य एव तथा निष्पत्तेः। तथा निष्पत्त्यैव वाच्याभिधानाद् गमकत्वम् (1) तस्मादेकसामग्र्यधीनत्वं प्रतिबन्धः। निश्चितप्रतिबन्धस्य चान्यस्मिन् कालेनुमानं । यद्यपि चात्रावयवी न विद्यते तथाप्याम्रादिप्रत्ययविषयस्य धर्मित्वन्तेन तत्र रसतो रूपादिगतिः ।
ननु तथापि कथमेषामेकसामग्र्यधीनत्वं । यतो ये (? येनै)व स्वभावेन रूपं