________________
४५
४५
२. अनुपलब्धिचिन्ता णीत्युच्यते ॥
या तीयं अकार्यकारणभूतेनान्येन रसादिना रूपादिगतिः, एवं चेत् (सापि)
एकसामंत्र्यधीनस्य रूपादेरसतो गतिः । हेतु(धमो)नुमानेन धूमेन्धनविकार(वत्) ॥११॥
कुतस्तहि शक्तेः प्रसव इत्याह । पूर्वेत्यादि। पूर्वसजातिः सदृशः पूर्वः कारणकलापस्तावन्मानं हेतुर्यस्याः शक्तिप्रसूतेः सा तथा। तद्भावस्तस्मात् । अतः कारणात् सा योग्यतानन्यापेक्षिणीत्युच्यते ॥ __ननु कार्य प्रति कारणस्य योग्यता यदि शक्तिरुच्यते तदा कार्यव्यभिचारे योग्यताया अपि व्यभिचार इति कथमेतदनुमान। अथ योग्यतासम्भव उच्यते तदायमर्थः स्यात् कार्यं स्याद्वा न वेति। तथापि कथमस्यानुमानं सन्देहादिति। - अत्रोच्यते। परेण हि कथमेतदनुमानन्त्रिविधहेतुजन्यमिति चोद्यते। यद्येतदनुमानम्परेण समर्थ्यते तदा त्रिविधलिङ्गजमेवेत्या चा र्ये ण प्रतिपाद्यते। न त्वेतत्परमार्थतानुमानमित्येवम्परमेतदित्येके। अथवा यद्येकान्तेन कार्योत्पादन- 18b योग्यतानुमीयते। तदा व्यभिचारादनुमानं न स्यात् । यदा तु कदाचित् कार्य स्यादित्येवंरूपः सम्भवोनुमीयते तदा कथमस्य व्यभिचारः। तेनायमर्थ उत्तरोत्तरपरिणामे यदि प्रबन्धाभावस्तदा कार्य स्यादन्यदा तु नास्तीति। परोक्ते त्वेकान्तेनकार्यानुमाने व्यभिचार एव। ___अन्ये तु परिणामवत्यां सामग्र्यां प्रतिबन्धकाभावे सत्येकान्तेन कार्योत्पादनयोग्यता भवतीति सैवानुमीयते। कार्योत्पादनयोग्यताप्रतीतिश्च कार्यमपि विशेषणत्वेनाक्षिपतीति न पृथक कार्यानुमानं क्रियत इति मन्यन्ते। केवलं सामग्रीमात्रात् कार्यानुमाने व्यभिचार उच्यते प्रतिबन्धकाभावः कथम्प्रतिपन्न इति चेत् (1) सत्यं । यो हि तं ज्ञातुं शक्नोति तस्यैतदनुमानं यो हि धूमस्याग्निजन्यत्वं ज्ञातुं शक्नोति तस्य धूमादग्न्यनुमानं नान्यस्य तद्वत्।
या तीत्यादिना पनरपि विधैव स इत्यस्य व्याघातमाह। अकार्यकारणभूतेन । अनु मेयादर्थादन्येनास्वभावेन रसादिना। आदिशब्दाद् गन्धादिना रूपादिगतिः। अत्राप्यादिशब्दात् स्पर्शादिग्रहणं। अन्धकारे हि मातुलुङ्गादिरसमास्वाद्य । चम्पकगन्धमाघ्राय। वहश्च स्पर्शमनभय। तेषां रूपसामान्यमनुमीयते तथा वह्निरूपं दृष्ट्वा तत्स्पर्शः। सा कथन्त्रिविधे हेतावन्तर्भवतीति प्रकृते।