________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।१०) त्पादनयोग्यतानुमानात्। योग्यता च सामग्रीमात्रानुबन्धित्वात् स्वभावभूतै- . वा नुमिता। किं पुनः सामग्रयाः कार्यमेव नानुमीयत इति।
सामग्रीफलशक्तीनां परिणामानुबन्धिनि । - अनैकान्तिकता (कार्ये) प्रतिबन्धस्य सम्भवात् ॥१०॥
न हि समग्राणीत्येव कारणद्रव्याणि स्वकार्य जनयन्ति। सामग्रीजन्यशक्तीनां परिणामापेक्षत्वाद्धि कार्योत्पादस्य । अत्रान्तरे प्रतिबन्धसम्भवात् न कार्यानुमानम् । ____ योग्यताया द्रव्यान्तरानपेक्षत्वात् न विरुध्यतेऽनुमानम्। उत्तरोत्तरशक्ति
परिणामेन नाना कार्योत्पादनसमर्था, शक्तिपरिणामप्रत्ययस्यान्यस्यापेक्षणीयस्या424b भावात्।' पूर्वसजातिमात्रहेतुकशक्तिप्रसूतित्वात् । सामग्रीयोग्यता ह्यनन्यापेक्षि
सामग्रीमात्रानुबन्धिनी कारणान्तरानपेक्षत्वात्। _ यदि तर्हि कार्योत्पादनशक्तिस्तन्मात्रानुबन्धिनी नियतस्तहि कार्योत्पाद इति स एव कस्मान्नानुमीग्रत इति परः पृच्छति । किं पुनः सामग्र्याः सकाशात् कार्यमेवानुमीयत इत्यत्राह। सामग्रीत्यादि। सामग्र्याः फलञ्च ताः शक्तयश्चेति सामग्रीफलशक्तयः । तथा हि पूर्वस्मात् समग्रादुत्तरस्य समर्थस्य क्षणस्योत्पत्तिस्तस्य चात्मातिशयः शक्तिरिति सामग्री फलं शक्तिस्तासां परिणामः। उत्तरोत्तरप्रबन्धेनोत्पत्तिस्तदनुबन्धिनि तदपेक्षिणि कार्ये। कारणेनानुमातव्येऽनैकान्तिकता। किङ्कारणं (1) प्रतिबनध (स्य)सम्भवात् ।
तयाचष्टे । न हीत्यादि। समग्राणीत्येव सन्निहितानीत्येव कारणद्रव्याणि स्वकार्य जनयन्ति । किङ्कारणं। सामग्रीत्यादि। सामग्रयाः सकाशाजन्म यासां शक्तीनान्तासामुत्तरोत्तरपरिणामः। पूर्वपूर्वक्षणादुत्तरोत्तरविशिष्टक्षणोत्पादो यस्तदपेक्षत्वात् कार्योत्पादस्य। अत्रान्तरे चेति सन्तानपरिणामकाले। प्रतिबन्धसम्भवात्। ____ ननु योग्यताप्युत्तरोत्तरक्षणपरिणामप्रतिबद्धा तत्रापि च प्रतिबन्धसम्भ
वात् कथन्तदनुमानमपीत्याह। योग्यतायास्त्वित्यादि। द्रव्यान्तरानपेक्षत्वात् - सन्निहितकारणकलापव्यतिरेकेण कारणान्तरानपेक्षत्वान्न विरुध्यतेऽनुमानं ।
तदेवानुमानमाह। उत्तरोत्तरेत्यादि । पूर्वपूर्वक्षणमुपादायोत्तरसमर्थक्षणोत्पाद उत्तरोत्तरशक्तिपरिणामः। तेन हेतुभूतेन कार्योत्पादनसमर्थेति साध्यनिर्देशः । इयं कारणसामग्रीति धर्मी। शक्तिपरिणामप्रत्ययस्यान्यस्यापेक्षणीयस्याभावादिति हेतु: शक्तेः परिणामस्य योऽपरः सहकारिप्रत्ययस्तस्यापेक्षणीयस्याभावात् ।