________________
२. अनुपलब्धिचिन्ता
४३ यस्तहि (समगुणेन) कारणकलापेन कार्योत्पादोऽनुमीयते स कथं त्रिविधे हेतावन्तर्भवति ॥
हेतुना यः समग्रण कार्योत्पादोऽनुमीयते ।
(अर्थान्तरा)नपेक्षत्वात् स स्वभावोऽनुवर्णिणतः ॥९॥ असावपि यथासन्निहितात् नान्यमर्थमपेक्षत इति तादृग्मात्रानुबन्धी स्वभावः। तत्र कारणकलापात् कार्योत्पत्तिसम्भवोऽनुमीयते केवलम्। समग्राणां कार्यो
अन्यथेति यदि न देशाद्यपेक्षणन्तदा व्यभिचारि विरुद्धकार्यं स्यात् । यथा भस्मानपेक्षितदेशकालं अशीतसाधने शीताभावे साध्ये व्यभिचारि। तद्वत् एवन्तावद् विरुद्धाद्युपलब्धिरनुपलब्धिरिति प्रतिपादितं।
यस्तीत्यादि परः। समगुणेति सन्निहितानुपहितेन यथा क्षितिवीजोदकादिकारणकलापं दृष्ट्वांकुरः कार्योनुमीयते। स कथं कारणाख्यो हेतुस्त्रिविधे स्वभावकार्यानुपलम्भाख्ये हेतावन्तर्भवति। न तावदनुपलब्धौ विधिसाधनत्वात्। कारणस्वभावत्वान्न कार्यहेतौ। अर्थान्तरेणार्थान्तरस्यानुमानान्न स्वभावहेतौ॥
अन्तर्भावमाह।
हेतुनेत्यादि । समग्रेणेति यावतः कारणकलापात् कार्यमुत्पद्यमानं दृष्टन्तावता नान्त्यावस्थाप्राप्तेन तत्र लिङ्गिग्रहणात् प्रागेव कार्यस्य प्रत्यक्षत्वात् । अप्रत्यक्षत्वे वाऽन्त्यावस्थानिश्चयायोगादनुमान। न च यस्तान् निश्चेतुं शक्ष्यति तस्यानुमानमन्त्यक्षणानामग्दिर्शनेनानिश्चयात् । यः कार्योत्पादोनुमीयते स हेतोः स्वभावो वर्णितः। कुतोर्थान्तरानपेक्षत्वात् । तेनायमर्थः कार्योत्पादनयोग्यतामात्रानुबन्धित्वात् स्वभावभूता॥ ___ननु यदाऽन्त्यावस्थापेक्षः कार्योत्पादस्तदा कथमन्यानपेक्ष इत्याह । असावपीति कार्योत्पादः। यथासन्निहितो यादृशः सन्निहितः। कारणकलापः। तादृशात् सन्निहितान्नान्यमर्थमपेक्षत इति तादृग्मात्रानुबन्धी स्वभावः। (कस्य भावः)। . समग्रस्य कारणकलापस्य (1) सन्तानापेक्षयैतद् उच्यते न क्षणापेक्षया। जनकः? कारणकलापसन्तानोनपेक्ष इत्यर्थः ।
18a यद्यप्यनपेक्षः कार्योत्पादस्तथाप्यर्थान्तरत्वात् कथं स्वभाव इत्याह । तत्रेत्यादि। यस्मात्तत्र समग्रेषु कारणेषु समग्रात् कारणाल्लिङ्गात् कार्योत्पत्ति (सम्भव)स्तथानुमीयते । सम्भवत्यस्मादिति सम्भवः। कार्योत्पादनयोग्यतानुमीयत इत्यर्थः । एतदेव व्यनक्ति। समग्राणां कार्योत्पादनयोग्यतानुमानादिति। योग्यता च