________________
४२
प्रमाणवात्तिकस्ववृत्तिटीका (१८) इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद् भस्मेवाशीतसाधने ॥८॥
424a
तद्विरुद्धकार्याभा वगतिरुक्तेति । यस्य विरुद्धस्य कार्यमुपलभ्यते तेन विरुद्धो यो द्वितीयः प्रतियोगी स तद्विरुद्धस्तस्य यत् कार्यन्तस्याभावगतिरुक्ता। यथेत्युदाहरणं। रोमहर्षादिविशेषो यः शीतकृतस्तेन युक्तो यः पुरुषः स यस्मिन् प्रदेशेविद्यते स तथा। प्रदेशोपादानं धूमादित्यस्य पक्षधर्मत्वप्रतिपादनार्थं । पुरुषे हि धर्मिणि न पक्षधर्मो हेतुः स्याद् धूमस्य प्रदेशधर्मत्वात् । अयं च प्रयोगः.(1) यत्र वह्निः शीतस्पर्शो रोमहर्षादिविशेषश्च परोक्षस्तत्राभावसाधने द्रष्टव्यः । तत्र हि शीतविरुद्धाग्निकार्यस्य धूमस्योपलब्ध्या अग्निविरुद्धशीतकार्यस्य रोमह
देरभावः साधयितुमिष्टस्तेन तथाभूत एव साध्यः। धूमो हि दहनं सन्निधापयति स शीतन्निवर्तयति (1) स निवर्तमानः स्वकार्य रोमहर्षादिकन्निवर्तयती
त्यर्थात् कारणविरुद्धोपलब्धिरियं। 17b इयन्तद्विरुद्धोपलब्धि (१।३२)रिति सम्बन्धः। कारणविरुद्धोपलब्धिरित्यर्थः ।
हेत्वसिद्धयैव कारणानुपलब्ध्यैव प्रागेव निर्दिष्टा। यस्मादनयोरपि प्रयोगयोः कारणानपब्धेरेव कार्याभावगतिस्तस्मादियं कारणानपलब्ध्यवोक्ता। ___इतीयमित्यादि। मौलेन प्रभेदेन चतुर्विधापि सती अवान्तरप्रयोगभेदाद् अष्टविधा भवति। तथा हि स्वभावविरुद्धोपलब्धेापकविरुद्धोपलब्धिः प्रभेद उक्तः। स्वभावानुपलब्धापकानुपलब्धिः। कारणानुपलब्धेः कारणविरुद्धोपलब्धिः कारणविरुद्धकार्योपलब्धिश्च । विरुद्धकार्योपलब्धिस्त्वेकप्रकारेत्यष्टविधा भवति ॥
ननु चिरविनष्टेप्यग्नौ वासगृहादौ धूमस्य सद्भावात् कथम्विरुद्धकार्योपलब्धेर्न । व्यभिचार इत्यत आह ।
तत्रेत्यादि। तत्र विरुद्धकार्येपीष्टं देशकालाद्यपेक्षणं । नात्र शीतः कस्मिश्चित् काले यदाऽग्निर्वर्तमानीभूत इति कालापेक्षणं व्योम्नि धूमात् कुत्रचिद्देशे नास्ति शीतो यत्र सन्निहितो वह्निर्यतोयं धूम उत्थित इति देशापेक्षणं । आदिशब्दाद् अवस्थाविशेषापेक्षणं (1) योवस्थाविशेषो धूमस्य सन्निहिताग्नेदृष्टस्तमपेक्ष्य वर्तमानेपि काले शीताभावोनुमीयते। अग्निरत्र धूमादिति कार्यहेतावपि देशकालाद्यपेक्षणमिष्टं। अस्यैवार्थस्य समुच्चयार्थोऽपिशब्दः। ___ननु देशकालाद्यपेक्षित्वस्य कार्यहेतुविशेषणत्वेऽसिद्धो हेतुः स्याद् धर्मिणोऽभावादिति चेत् (1) न। प्रदेश एव धर्मिणि देशकालाद्यपेक्षित्वेन गमकत्वादित्युक्तत्वात् ।