________________
४१
२. अनुपलब्धिचिन्ता यथा नात्र शीतस्पर्शः काष्ठात्। निमित्तयोविरोधे गमिके च। यथा नास्य (पुंसो) रोमहर्षादिविशेषाः सन्निहितदहनविशेषत्वात्। ___एतेन तत्कार्यादपि तद्विरुद्धकार्याभावगतिरुक्ता। यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः धूमात् ।'
सिद्धिरुपल) ब्धिलिङ्गत्वेन वेदितव्या। अत्र च दृश्यात्मनां सिद्धिरिति न सम्बध्यते उपलब्धिवचनादेव दृश्यात्मताया लब्धत्वात्। किन्त्वेवं सम्बन्धः कर्त्तव्यः। दृश्यात्मनान्निषेध्याभिमतानां ये विरुद्धास्तेषां सिद्धिरिति। किंङ्कारणम् (1) अन्येषामदृश्यात्मनां कारणादीनामभावासिद्धेः। अदृश्यानां निषेध्याभिमतानां स्वभावविरुद्धादिति विरो (धाद्यसिद्धिः ॥
यदी)'त्यादि परः। शीतविरुद्धस्याग्नेः कार्य धूमस्योपलब्ध्याप्यभावसिद्धिः? शीतस्य। तत्कारणोपलब्ध्या। तस्य शीतविरुद्धस्याग्नेर्यत् कारणं 17a काष्ठादिस्तस्योपलब्ध्या किन्न सिध्यति शीताभावः ।
तद्विरुद्धस्येत्याद्याचार्यः। तेन शीतस्पर्शेन विरुद्धस्य वह्ननिमित्तं काष्ठादिस्तस्य योपलब्धिः प्रयुज्यते सा व्यभिचारिणी। कदा (1) निमित्तयोविरुद्धत्वा(भावे सति । अ) 'ग्निशीतनिमित्तयोविरोधाभावे सति। उदाहरणमाह । यथेत्यादि। अत्र हि काष्ठमा त्रस्य दहनहेतोः शीतनिमित्तेन तुषारादिना विरोधाभावात्। यत्पुनरप्रतिबद्धसामर्थ्यमग्निजनकं काष्ठन्तस्य यद्यपि शीतनिमित्तेन विरोधस्तथापि तथाभतस्य काष्ठस्य कार्यदर्शनादेव निश्चयात कार्यविरोध एव स्यात् । निमित्तयोः पुनर्विरोधे गमिके च कारणानुपलब्धिः। यथा नास्य पुंसः रोमहर्षादिविशेषाः। आदिशव्दाद् दन्तवीणाकम्पादयः। विशेषग्रहणं शीतकार्याणां परिहारार्थं। पिशाचादिविकारकृता अपि हि ते सम्भवन्ति। सन्निहितो दहनविशेषो यस्य पुरुषस्य स तथा तद्भावस्तस्मात् (1) अत्रापि विशेषग्रहणं यथाभूतो देहनो रोमहर्षाद्यपनयनसमर्थस्तथाभूतस्य परिग्रहार्थं । अत्र हि परितापनिमित्तस्य दहनस्य रोमहर्षादिनिमित्तेन शीतेन विरोधोऽस्ति। तस्माद दहनः स्वविरुद्धं शीतमपनयंस्तत्कार्यमपि रोमहर्षादिकमपनयतीति । शीतस्पर्शस्य तत्कार्यस्य च रोमहर्षादेः परोक्षत्वे सति वह्निदर्शनाच्छीतकारणनिवृत्त्या यदा रोमहर्षादेनिवृत्तिः साध्याभिप्रेता तदाऽयं प्रयोगो द्रष्टव्यः ।
एतेन कारणविरुद्धोदाहरणेन तत्कार्यादपीति विरुद्धस्य यत्कार्यन्तस्मादपि।
1 In the margin.