________________
प्रमाणवात्तिकस्ववृत्तिटीका (१७) हेत्वसिद्धया। यथा नात्र धूमो बह्नयभावात् । स्वभावासिद्धचा। यथा नात्र धूमो वह्नरनुपलम्भात्। एतेन व्यापकस्वभावासिद्धिरुक्ता। यथा नात्र शिंशपा वृक्षाभावात्।
सर्वत्रापि अभावसिद्धयनुपलब्धः दृश्यात्मनां तेषां च विरुद्धसिद्धचसिद्धी वेदितव्य। अन्येषामभावा सिद्धेः। यदि विरुद्धकार्योपलब्ध्याऽप्यभावसिद्धिः तत्कारणोपलब्ध्या किन्न सिध्यति ।
तद्विरुद्धनिमित्तस्य योपलब्धिः प्रयुज्यते । निमित्तयोविरुद्धत्वा(भावे सा व्यभिचारिणी)॥७॥
“असिद्धिहेतुभावयोः'। . इत्येतदुदाहरणाख्यानेनाचष्टे (1) हेत्वसिद्ध्येति कारणानुपलध्या। यथेत्यादि। यदा महाह्रदस्योपरि वाष्पादौ धूमादिरूपतया सन्देहो भवति तदाऽयं प्रयोगो द्रष्टव्यः। तत्र हि निष्कम्पे महाहदे यद्यग्निः स्यात् प्रभास्वरतया प्रत्यक्ष एव स्याद् (1) अप्रत्यक्षत्वादेव वढेरभावात् कार्याभावः साध्यते। स्वभावासिद्धयेति स्वभावानुपलब्ध्या न तत्र धूमोऽनुपलब्धेरिति । उपलब्धिलक्षणप्राप्तस्येति द्रष्टव्यं । एतेनेति स्वभावानुपलम्भप्रयोगेण। व्यापकश्चासौ स्वभावश्च तस्यासिद्धिरनुपलब्धिरुक्ता। यथा नात्र शिशपा वृक्षाभावात्। स्वभाव एव वृक्षत्वं शिंशपात्वस्यातो वृक्षत्वेन शिंशपा व्याप्ता ॥
ननु च स्वभावानुपलब्धावेव दृश्यनिषेधो न तु विरुद्धोपलब्ध्यादौ (1) तथा ह्यदृश्यस्यैव शीतस्पर्शस्य कार्यस्य चादृश्यस्यैव निषेधः साध्यते (1) दृश्यत्वे हि । स्वभावानुपलब्धिरेव स्यात् । तेन यथाऽदृश्यस्य शीतस्प देनिषेधस्तथा पिशाचादेरपि स्यादित्यत आह। सर्वत्रेत्यादि।
एतदुक्तम्भवति। यथा स्वभावानुपलब्धावन्यत्रोपलब्धस्य घटादेः प्रदेशविशेषेऽभावः साध्यते तथान्यत्र प्रतिपन्नविरोधस्य शीतस्पर्शस्य प्रतिपन्नकार्यत्वस्य च कार्यस्य विरुद्धोपलब्ध्यादिना साध्यमिण्यभावः साध्यते न तु सर्वदाऽदृश्यस्येति । सर्वत्रेति विधिमुखेन प्रतिषेधमुखेन च प्रयुक्तायामभावसाधन्यामित्यभावश्चाभावव्यवहारश्चाभावशब्देनोक्तः ।
तेषामपि येषामभावेनाभावः साध्यते तेषां कारणादीनां दृश्यात्मनामेवासिद्धिरनुपलब्धिः। तद्विरुद्धानां च प्रतिषेध्यार्थविरुद्धानाञ्च स्वभावविरु (द्धादीनां