________________
२. अनुपलब्धिचिन्ता
३६ न्तरस्याभावः साध्यते। केवलं तत्र विषयी साध्यते। अस्यामपि यदा व्यापकधर्मानुपलब्ध्या व्याप्याभाव'माह तदाऽभावोऽपि। इयं हि विरुद्धविषयिणोऽनुप- 423b लब्धिः योगविभागेन चतुविधा। विरुद्धसिद्धया। यथा नात्र शीतस्पर्श (:) वह्नः।
एतेन व्यापकविरुद्धसिद्धिरक्ता वेदितव्या। यथा नात्र तुषारस्पर्शः बलः। विरुद्धकार्यसिद्धया हि। यथा न शीतस्पर्शोऽत्र धूमाद् ।
ब्धिरेवाभावं गमयति। कार्यस्येति सम्बन्धाद् गम्यते। .. स्वभावानुपलब्धेरप्यभावहेतुत्वादवधारणमयुक्तमिति चेदाह। स्वभावानुपलब्धिस्तु स्वयमसतैव (1) नात्रार्थान्तरस्याभावः साध्यते। स्वभावान्तरस्य च निषेधे साध्ये कारणानुपलब्धिरेवेत्यवधारणमतो न व्याघातः ।
किन्तहि तत्र सांध्यत इत्याह। केवलमित्यादि। तत्रेति स्वभावानुपलब्धौ विषयी असज्ज्ञानादिः। अस्यामपीति स्वभावानुपलब्धौ यदा व्यापको यो धर्मस्तस्यानुपलब्ध्या व्याप्याभावमाह। यथा नात्र शिंशपा वृक्षाभावादिति। तदाऽभे6१. दोपि व्याप्यस्य साध्यते। अपिशब्दाद् व्यवहारोपि। यदा हि समुन्नतयोः पर्वतप्रदेशयोरेकस्मिन् प्रदेशे तरुवनं दृश्यमानमतिगहनत्वादनवधारितवृक्षविशेषम्भवति। तत्रापरस्मिन् पर्वतोद्देशे शिंशपाभावो न निश्चेतुम्पार्यते शिंशपाया अदृश्यत्वाद् वृक्षस्तूपलब्धिलक्षणप्राप्त इति शक्यतेऽभावनिश्चयः कर्तुन्तस्य । तदा व्यापकाभावाद् व्याप्यस्याभावः साध्यते। ___ इयमित्यादिनाऽभावार्थेत्यादिकारिकाभागं व्याचष्टे। विरुद्धसिद्धयेति। स्वभावविरुद्धोपलब्ध्या। यथेत्यादि। यत्र धर्मिणि शीतस्पर्धः परोक्षः। वह्निश्च दृश्यते (1) दूरात्तस्मिन् विषयेऽयं प्रयोगः। एतेनेति स्वभावविरुद्धोपलब्ध्युदाह रणेन व्यापकविरुद्धसिद्धिरुक्ता वेदितव्या। यथेत्याधुदाहरणं। शीत स्पर्श- 16b विशेष एव। हिमानुगतस्तुषारस्तस्य व्यापक: शीतस्तस्य विरुद्धोग्निः। तत्राग्निविरुद्धं शीतं निवर्तयन् तद्वयाप्यन्तुषारस्पर्शमपि निवर्तयतीत्यर्थतः स्वभावविरुद्धोपलब्धावियमन्तर्भवति। यत्र च वह्निः प्रत्यक्षः शीतस्पर्शस्तुषारस्पर्शश्चाप्रत्यक्षस्तत्रायमपि प्रयोगो द्रष्टव्यः। विरुद्धस्य यत्कार्यन्तस्यासिद्धया। यथेत्यादि। न शीतस्पर्शोत्र धूमादिति शीतविरुद्धोग्निस्तस्य कार्यं धूमः सोग्नि सन्निधापयति स च शीतमपनयति। यत्र च शीतस्पर्शः परोक्षो वह्निरपि धूमश्च प्रत्यक्षस्तत्रायं प्रयोगो द्रष्टव्यः । एवन्तावविरुद्धकार्ययोः सिद्धिरित्येतद् व्याख्यातं ।
अधुना (1)
ICf. तदाऽभावोऽपि