________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १/६ )
भावसिद्धेः । एकस्य निषेधात् अन्याभावासिद्धौ हि अनुपलब्धिसिद्धिरेव । निषेधस्य हि अनुपलब्धिरूपत्वात् । अथान्यनिषेधः तत्रापि कार्यकारणयोः अनुभवस्य वा । तत्रानुभयस्य प्रतिबन्धाभावात् । तदभावेऽन्येन न भवितव्य - मिति कुत एतत् । कार्यानुपलब्धावपि तदभावः, यतो नाकारणानि तद्वन्ति वैकल्य (प्रतिबंध संभव ) प्रसंगात् तदभावः कुतः स्यात् । तस्मात् कारणानुपलब्धिरेवाभावं गमयति । स्वभावानुपलब्धिस्तु स्वयमसत्तैव (1) नात्रार्था
३८
ग्निदर्शनाच्छीतस्य प्रतीतिः स्यात्तयोरेव विरोधसम्बन्धेन ( समुत्थि [त ] त्वात् । न शीता) 'भावस्यासम्बन्धित्वात् । यदा चाग्निना शीतो निवर्त्यते तदा कथं विरोधः सम्बन्धो द्विष्ठत्वाभावात् । न च शीताभावेन सहाग्नेविरोधः सहावस्थानात्। नाप्यग्नेः शीताभावाव्यभिचारित्वात्ततः शीताभावाद्यनुमानं । अग्निभावेपि शीतभावदर्शनात् । तस्माद् यथा यथाग्निसद्भावे शीतस्यानुपलम्भस्तथा तथा दृष्टान्ते तदभावस्य प्र ( तिपन्नत्वात् । अन्यत्राप्यग्नेः ) ' शीताभावस्तथैवानु16a मीयते। तेनायमर्थो भवति (1) साध्यर्धामण्यप्यग्निसद्भावे यदा शीतस्यानुपलम्भस्तदैवाग्नेविरोधित्वं नान्यदा । विरोधित्वेन च गमकत्वमित्यन्यानुपलम्भेन गमकत्वमित्युक्तम्भवति ( 1 ) अतो विरुद्धोपलब्धिरनुपलब्धिनियतत्वादनुपलब्धिरूपत्वं । केवलभूतलोपलब्धेर्घटानुप (लब्धिरूपत्ववत् । ए ) 'वं हारेप
परस्परपरिविरुद्धोपलब्धिरनुपलब्धिरेव । यथार्हतां स्याद् (1) अनित्यो घटः स्यान्नित्य इत्यत्र ह्यनित्योपलब्धिरेव नित्यानुपलब्धिरतो न नित्यानित्य
रूपम्वस्तु ।
एवमर्थान्तरविधावपि निषेध्यस्यानुपलब्धिङ्गमिकां प्रतिपाद्यार्थान्तरनिषेधेपि प्रतिपादयितुमाह । एकस्येत्यादि । कस्मात् ( 1 ) निषेधस्येत्यादि । न चार्थान्तराभावाद (र्थान्तरनिषेधेति ) ' प्रसङ्गः (1) यतस्तत्रापीत्यन्यनिषेधे साध्ये कार्याणयोनिषेध हेतुः स्यात् । 2 अनुभयस्याकार्यस्याकारणस्य वा निषेधो हेतुः स्यात् । तत्र तेषु । अनुभयस्याकार्यकारणात्मकस्य निषेध्येन सह प्रतिबन्धाभावात् तदभावेऽप्रतिबद्धस्याभावे । अन्येनेति प्रतिषेध्याभिमतेन । न भवितव्यमिति कुत एतत् । कार्यानुपलब्धावपि कुतस्तदभाव इति सम्बन्धः । तदभाव इति कारणाभावः । यतो नानाकारणानि तद्वन्ति कार्यवन्ति वैकल्य' प्रतिबन्धसम्भवात् । एतच्च कारणमात्रे गृहीत्वोक्तमप्रतिबुद्धासामर्थ्यस्य कारणस्याभाव: कार्याभावाद् गम्यत एव (1) यतोनुभयस्य कार्यस्य चानुपलब्धिर्गमिका । तस्मात् कारणानुपल
1 In the margin.