________________
२. अनुपलब्धिचिन्ता
तत्राप्ये कोपलब्ध्याऽन्यानुपलब्धिरेवोच्यते ।
३७
अन्यथाऽनिषिद्धोपलब्धिकस्या-
निवृत्तिरूपम्पीतम्पीतनिवृत्तिरूपं च नीलमनयोर्भावरूपत्वान्नीलाभावे पीतस्य भावप्रसंगाच्च (।) तस्मान्नानयोरयं विरोधः । नाप्यनयोरन्योन्याभावाव्यभिचारेणांयं विरोधोऽप्रतीतेः। अत एवाविरुद्धस्य विधानमुच्यते । नीलस्यापि नीलनिवृत्तिरूपेणानीलेना-यं विरोधो न नीलाभावनियतेनानीलेन तथाभूतस्यानीलवस्तुनः पीतादिव्यतिरिक्तस्याभावात् । कथन्तर्हि नीलादौ दृश्यमाने पीतादेस्तादात्म्यनिषेधः ।
नीलस्यैकस्योपलम्भेन्यस्यादृश्यस्याप्युपलम्भमान
नैष दोषो यस्मात् । स्वभावत्वे सति तथैवोपलम्भ: स्यादित्येवमुपलब्धिलक्षणप्राप्तत्वम्परामृश्य तादात्म्यं स्वभावानुपलम्भान्निषिध्यते । अत्रापि च विरोधे स चानुपलब्धेरित्यपेक्षणीयन्तेनायमर्थः ( 1 ) स चान्योन्यपरिहारो विरोधोनुपलब्धेरेव निश्चेत. व्यः । तथा हि ( 1 ) विरोधिनाम्विरोध एकप्रतिभासे सत्यन्याप्रतिभासनमेवोच्यते (1) भावस्य च रूपे प्रतिभासमाने तदभावो न प्रतिभासते ( 1 ) तस्माद् भावाभावयोस्तादात्म्येनाप्रतिभासनाद् विरोधो निश्चीयते । एवं नित्यानित्यादावयन्निश्चेतव्यः ।
अप्रतिभासनं चैकप्रतिभासनमेवोच्यते । तदाह । तत्रापीत्यादि । नन्तरोक्ते विरोधे । एकोपलब्ध्या । एकस्य विरोधिन उपलब्ध्यान्यानुपलब्धिरेव निषेध्यानुपलब्धिरेवोच्यते । अन्यथेति यद्येकोपलब्ध्यान्यानुपलब्धिर्नोच्यते । तदानिषिद्धा उपलब्धिर्यस्य निषेध्यस्य तस्यैकोपलब्धावप्यभावासिद्धेः । ततश्चोपलभ्यमानस्य विरोधित्वमेव न स्यात् । तस्माद् विरोधद्वयस्याप्यनुपलब्धिकृतत्वाद् विरुद्धोपलब्ध्यादयो विधिमुखेन प्रयुक्ता अप्यनुपलब्धिस्वभावा भवन्ति ।
1 In the margin.
तत्राप्य
ननु विरोधिनोविरोधलक्षणसम्बन्धग्राहिकानुपलब्धिर्दृष्टान्ते । न च सम्बन्धग्राहकस्य प्रमाणस्य रूपं सम्बन्धिनोर्भवति । न ह्यग्निधूमयोः ( सम्बन्धग्राह) कस्य प्रत्यक्षस्य रूपं धूमस्य भवति नाग्नेः । तत्कथम्विरुद्धोपलब्धिरनुपलब्धिर्भवत्युपलब्धिरूपतया प्रतिभासनात् । तस्माद् दृष्टान्ते गृहीतविरोधमग्न्यादिकमन्यत्र प्रदेशे दृष्ट्वा शीताद्यभावोनुमीयत इति ।
अत्रोच्यते । यदि विरोधसम्बन्धद्वारेण गम्यगमकभावो विरोधिनान्ततश्चा