________________
३६ • प्रमाणवात्तिकस्ववृत्तिटीका (१६)
अन्योन्यो पलब्धिपरिहारेण स्थितिलक्षणता वा विरोधः नित्यानित्यवद् ।
चा (ग्नितारतम्येन शीतस्पर्श) 'स्यापचयतारतम्ययोगिनः क्रमेणोत्पद्यमानस्य यावत्सर्वसर्वेणानुत्पत्तिरुष्णस्पर्शलक्षणो भवति। तेन निर्हेतुकेपि विनाशेऽग्निसन्निधानात् पूर्व प्रबन्धप्रवृत्तस्य शीतस्पर्शस्य स्वरसनिरोधेऽन्यस्य च प्रबन्धेनोत्पित्सोरग्निसन्निधाने सत्यनुत्पत्तेरग्निशीतयोविरोधावगतिलोके न तु परमार्थतो विरोधः। अत एव विरोधगतिरि(त्याह।
(यत्पुनरुच्य) ते (।)न कारणनिवर्त्तनमन्तरेण कस्यचिदग्न्यादिनिवर्त्तको नामेति।
तदयुक्तं । निर्हेतुकत्वाद् विनाशस्य कथं कारणस्य निवर्त्तकः। अथ सहेतुकविनाशमभ्युपगम्यैवमुच्यते तदा यथासौ कारणं निवर्तयति कार्य किन्न निवर्तयति। यदि च कारणनिवर्त्तनमन्तरेण न कार्यं निवर्तयितुं शक्यते तदा तत्कारणस्यापि कथन्निवर्तकं यावत्तत्कारणं न निवर्त्तयति तत्कारणस्याप्येवमित्यनवस्थया न कश्चित् कस्यचिन्निवर्त्तक: स्यात् (1) न च सन्ताना पेक्षयैतद्वक्तुं युज्यते सहेतुके विनाशे सन्तानस्यैवाभावादिति यत्किञ्चिदेतत् । स चेत्यन्यभावे सत्यभावोनुत्पत्तिलक्षणो विरोधहेतुरनुपलब्धः सकाशाद् व्यवह्रियते।
अनेन सहानवस्थालक्षणो विरोधो व्याख्यातः।
द्वितीयं विरोधन्दर्शयन्नाह। अन्योन्योपलब्धीत्यादि। अन्योन्योपलब्धिः परस्परप्रतिपत्तिस्तस्याः परिहारो विवेकस्तेन स्थितं लक्षणं स्वरूपं ययोस्तौ तथोक्तौ। तयोर्भावोन्योन्योपलब्धिपरिहारस्थितलक्षणता। सा वा विरोधः (1) वा शब्दः समुच्चये। नित्यानित्यत्ववदिति दृष्टान्तः ।
नन प्रथमविरोधप्यस्त्येव परस्परपरिहारः। द्वितीयेपि सहानवस्थानं । तथा हि ययोरेव धर्मयोरेकत्रानवस्थानन्तयोरेव द्वितीयो विरोधः। तथा हि रूपरसयोरयं नेष्यते। तत्कस्माद् विरोधद्वयमुक्तमिति चेत् (।)
सत्यं विषयविभागार्थन्तूक्तं। पूर्वो विरोधो दृश्यवस्तुविषय एव। द्वितीयस्त्ववस्तुविषयोप्यदृश्यविषयश्चेत्येके। यद्वा पूर्वकोन्यतोन्यस्याभावप्रतिपत्त्यान्येन
सह विरोधः। द्वितीयस्त्वन्येन सहकत्वाभावेन स्वरूपविषय इत्यनयोविरोध Ib योर्महान् भेदः। तथा हि नित्यत्वनिवृत्तिरूपमनित्यत्वम नित्यत्वनिवृत्तिरूप
ञ्चानित्यत्वमित्येवमन्योन्यपरिहार एव विरोधः स्वरूपनिष्ठः। न च नील
1 In the margin.