SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सा च प्रयोगभेदात् । २. अनुपलब्धिचिन्ता (२) अनुपलब्धिश्चतुर्विधा ( विरुद्धकार्ययोः सिद्धि सिद्धिर्हेतुभावयोः । ) दृश्यात्मनोर; अभावाचानुपलब्धिश्चतुर्विधा ||६|| ३५ यावान् कश्चित् प्रतिषेधव्यवहारः सर्वोह्यनुपलब्ध्या । तथा हि स द्विधा क्रियेत । कस्यचिद् विधिना निषेधेन वा । विधावपि विरुद्धो वा विधीयेताविरुद्धो वा । अविरुद्धस्य विधौ सहभावविरोधाभावाद् अप्रतिषेधः । विरुद्धस्याप्यनुपललब्ध्यभावेन प्रतिषेधगतिः । तथा हि अपर्यन्तकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिः । साऽपि अनुपलब्धितः । एतेन स्वभावविरुद्धोपलब्धिविरुद्धकार्योपलब्धिश्च द्वे निर्दिष्टे । "प्रसिद्धिर्हेतुभावयोः दृश्यात्मनोः " इत्युपलब्धिलक्षणप्राप्तयोः कारणस्वभावयोरनुपलब्धिरित्यर्थः । एतेनापि कारणानुपलब्धिः स्वभावानुपलब्धिश्च द्वे निद्दिष्टे इति चतुर्धा भवति । अभावार्थेत्यभावोऽभावव्यवहारश्चार्थः प्रयोजनं (यस्याः सा तथा । ) २ ननु विरुद्धकार्ययोः सिद्धिरित्यत्रानुपलब्धिरिति न श्रूयते (1) तत्कथमनयोर'नुपलब्धित्वमित्यत आह । यावान् कश्चिदित्यादि । यावान् कश्चिदिति व्याप्ता ( ? ) चैतत् कथ्येत । न कश्चित् प्रतिषेधव्यवहारो लिङ्गजोस्ति योनुपलब्धिमन्तरेण शक्यते कर्त्तुं । न तु प्रत्यक्षसाध्यत्वमभावव्यवहारस्य निराकृतमेतच्चप्रागेवोक्तन्तामेव ( व्याप्तिं दर्शयितुमाह । तथा हीति ) । स इति प्रतिषेधः । द्विधाति व्यवह्रियेत कस्यचिदर्थस्य विधिना' निषेधेन वा (1) कस्यचिद्विधा- 152 aft क्रियमाणे । विरुद्धो वा विधीयेताविरुद्धो वाऽविरुद्धस्य विधौ निषिध्यमानविधीयमानयोः सहभावविरोधाभावादप्रतिषेधो निषेध्याभिमतस्य । विरुद्धस्यापी - त्यादि । एवं ह्यसौ विरुद्धः स्याद् यदि तत्र स्वविरुद्धस्यानुपल ( धेः । तथा हीत्यादिनैतदेवा) ह । अपर्यन्तकारणस्येत्यक्षीणकारणस्य' भवतः सन्तानेनोत्पद्यमानस्य शीतस्पर्शादेरग्न्यादिसन्निधानात् पूर्वमिति द्रष्टव्यं । अन्यभावेऽग्न्यादिभावेऽभावादनुत्पादाद् विरोधगतिः । न त्वभावादहेतुकत्वाद् विनाशस्य । एतदुक्तम्भवति । पूर्वपूर्वस्य शीतस्पर्शस्य स्वरसनिरोधे सत्युत्तरोत्तरस्य 1 Dag-gam ?Dgag-pa. 2 In the margin. 2
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy