________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।५) लब्ध्योहि स्वविपर्ययहेत्वभावभावाभ्यां सद्व्यवहारप्रतिषेधफलत्वमुक्तम् । एकत्र संशयात् अन्यत्र तु विपर्ययात्। तत्राद्या प्रमाणमुक्ता सद्व्यवहारनिषेधे उपयो
गात्। न तु व्यतिरेकदर्शनादौ संशयादुपयोगः। युक्ता द्वितीया त्वत्र प्रमाणं 423a निश्चय फलत्वात् ॥
14b व्यवहारोपि निमित्तनिश्चया भावान्मृत्पिण्डे न प्रवर्तयत्यनुपलम्भनिमित्तप्रदर्शने घटाभावव्यवहारे प्रवर्त्यते।
एवमित्यादिनोपसंहारः। एवमुक्तेन प्रकारेणानयोरनुपलब्ध्योर्दश्यादृश्ययोः सद्व्यवहारप्रतिषेधफलत्वन्तुल्यं। ___ कथं स्वविपर्ययहेत्वभावभावाभ्यां स्वशब्देन सद्व्यवहारस्य स्वरूपं गृह्यते विपर्ययशब्देन सद्व्यवहारविरुद्धोसद्व्यवहारो गृह्यते। तयोर्हे 'तू। स्ववियंयहेतू। तत्र स्वहेतुरुपलब्धिविपर्ययहेतुर्दश्यानुपलब्धिः। तयोरभावभावौ। स्वविपर्ययहेत्वभावभावौ। ताभ्यां।
एतदुक्तम्भवति (1) अदृश्यानुपलब्धौ सद्व्यवहारनिमित्ताया उपलब्धेः प्रत्यक्षानुमाननिवृत्तावभावात् सद्व्यवहारनिवृत्तिः। दृश्यानुपलम्भे तु सद्व्यवहारविरुद्धस्यासद्व्यवहारस्य निमित्तसद्भावात् प्रवृत्तिस्तेन सद्व्यवहारस्य निवृत्ति-2 रिति सद्व्यवहारप्रतिषेधफलत्वन्तुल्यं ।
ननूपलम्भनिवृत्तावप्यर्थस्य सन्देहात् कथं सद्व्यवहारो निवत्तंत इत्याह । एकत्रेत्यदृश्यविषयायामनुपलब्धौ सत्त्वस्य संशयात् ततो निश्चयात्मकः सत्त्वव्यवहारो निवर्तत एव । सन्दिग्धस्तु सत्त्वव्यवहारो न निवर्त्तते । अन्यत्र तु दृश्यानृपलब्धौ विपर्ययादिति संशयविपर्ययो निश्चयस्तस्मात् । असत्त्वस्य निश्चयादित्यर्थः ।
यद्यदृश्यानुपलब्धौ संशयः कथं सा प्रमाणमित्याह। तत्रायेत्यादि। तत्र द्वयोरनुपलब्ध्योर्मध्ये आधा दृश्यानुपलब्धिः प्रमाणमुक्ता सद्व्यवहारनिषेधे उपयोगाद् व्यापारात्।
क्व तर्हि तस्या अप्रामाण्यमित्याह। न त्वित्यादि। व्यतिरेकस्याभावस्य दर्शनन्निश्चयः । आदिग्रहणाच्छब्दो व्यवहारश्च गृह्यते। संशयाद् यतो नाभावनिश्चय उत्पद्यते। तस्मान्न प्रमाणं। द्वितीया त्विति। दृश्यविषयानुपलब्धिः । अति व्यतिरेकदर्शनादौ निश्चयफलत्वान्निश्यच एव फलमस्या इति कृत्वा । सा च दृश्यविषयानुपलब्धिः प्रयोगभेदाच्चतुर्विधेति सम्बन्धः। विरुद्धश्च विरुद्धकार्य चेति विरूपैकशेषः। सिद्धिरु (पलब्धिर्दश्यात्मनो) 'रित्यत्रापि सम्बन्धनीयं ।
1 In the margin..