________________
२. अनुपलब्धिचिन्ता यदा पुनः एवं विधेऽनुपलब्धिरेवासतां, तदा सिद्धेऽपि विषये मोहाद् विषयिणो ज्ञानशब्द व्यवहारान् अप्रतिपद्यमानः' विषयप्रवर्शनेन समये प्रवर्त्तते। यथा सास्नादिसमुदायात्मकत्वादयं हि गौरिति। तथा च दृष्टान्ताऽसिद्धिचोदनाऽपि प्रतिव्यूढा। विषयप्रतिपत्तावप्यप्रतिपन्नविषयिणां दर्शनात् । एवमनयोरनुप
प्रति दृश्यानुपलम्भो नाभावं व्यभिचरतीत्यभावव्यवहारः प्रत्यक्षसिद्धः । ___ न चाप्यभावोनुपलब्धानामपि (सत्त्वान्नित्यं शक्यमानानुप) लंभव्यभिचार इति कृत्वा व्यवहर्तुमशक्य इति वक्तुं युक्तं । एवं ह्यभावस्य निश्चायकमपि प्रत्यक्षन्न स्यात्। सन्देहान्न चान्यन्निश्चायकमन्यद् व्यवहाराङ्गं युक्तं। तस्मात् प्रत्यक्षनिश्चायकत्वाद् भाववद् दृश्यस्याभावमपि व्यवहारयति।
कथन्तर्खासद्वयवहारस्य साध्यत्वमित्याह। यवा पुनरित्यादि। एवं विधे ह्यपलम्भयोग्यानु (पलब्धिरेवासतां पदार्थानामसत्ता नान्या। तदा सिद्धेपि प्रत्यक्षेणाभावव्यवहारस्य विषये। मोहाद् विषयिणो [ऽसतो (s) विद्यमानस्य] २ ज्ञानं । नास्तीत्येवमाकारं। नास्तीत्येवम्भूतश्च शब्बः निःशवावगमनागमनलक्षणा पुरुषस्य प्रवृत्तिर्व्यवहारः। तानप्रतिपद्यमानः पुमान्। विषयप्रवर्शनेनासधवहारविषयस्य घटविविक्तप्रदेशस्योपलम्भमानस्य प्रदर्शनेन। समयेऽभावव्यवहारे प्रवर्त्यते। दृष्टान्तमाह। यथेत्यादि। सास्नाविसमुदायात्मक एव गौः। ततो न तत्र गोत्वं साध्यते किन्तु गोव्यवहारः। यदायं मूढमतिः शावलेये प्रवत्तितगोव्यवहारो बाहुलेये शावलेयरूपशून्यत्वाद् गोव्यवहारं न प्रवर्तयति स निमित्तप्रदर्शनेन गोव्यवहारे प्रवर्त्यते। सास्नादिसमुदायनिमित्तको हि गोव्यवहारो न शावलेयरूपनिमित्तिकः। बाहुलेयेऽपि तन्निमित्तमस्तीति कथमसो न प्रवर्त्यते। तद् घटविविक्तेपि प्रदेशेनुपलम्भनिमित्तप्रदर्शनेनासद्व्यवहारे प्रवर्त्यते ।
तथा चेति येनैवं व्यवहारः साध्यते तेन दृष्टान्तासिद्धिचोदनापि प्रतिव्यूढा प्रतिक्षिप्ला। अनुपलब्धेलिङ्गादभावे साध्ये येनैव लिङ्गो न साध्यधर्मिण्यभावःसाध्यस्तेनैव दृष्टान्तर्मिण्यपि तत्राप्यपरो दृष्टान्त इत्यनवस्था स्यात् (1) व्यव हारे तु साध्ये नानवस्था। प्रवत्तितव्यवहारस्यैव पुनः समये प्रवर्तनात्। __ ननु यो हि विषयं प्रतिपद्यते स विषयिणमपि प्रतिपद्यत इति कथं व्यवहारस्यापि साध्यत्वमित्याह। विषयेत्यादि। दृश्यन्ते हि लोके तथाविधा ये विषयप्रतिपत्तावप्यप्रतिपन्नविषयिणः। यथा सांख्यः सत्त्वे रजो नास्तीति प्रवत्तितास
1 Ron-du-med-pa.
2 In the margin.