________________
३२
प्रमाणवात्तिकस्ववृत्तिटीका (११५)
तत्तस्य कार्य कारणं चोच्यते। तेषां चैकक्षणस्थायित्वेनोत्पत्ते शित्वं स्वस्वरूपेणवोत्पत्तेः परस्परभिन्नता च सिध्यति। तेन प्रागभावाद्यभावेपि कारणादिविभागतो व्यवहारो भवत्येव । न च प्रागभावादीनाम्परस्परम्भेदः प्रतिभासते। यस्माद् घटादेः पूर्वम्पश्चादन्यत्र च निवृत्तिमात्रमभिन्नं प्रतिभासते। यदि नाम कालभेद: प्रतीयते । न हि गोत्वमनेककालादिसम्बन्धित्वेन प्रतीयमानम नेकम्भवति। निवृत्तेर्नीरूपत्वाच्च कथमभावस्य नानात्वं भावनिवृत्तिरूपत्वाच्चाभावस्य । केवलं यो मूढ उत्पत्तेः पूर्वं पश्चादन्यत्र च कार्यस्य भावमिच्छति तं प्रतीदमुच्यते (1) कार्यस्य पूर्वम्पश्चादन्यत्र चाभाव इति भावारोपनिषेधमात्रं क्रियते।
तेन । न चावस्तुन एते स्युराकारा, इत्यादि यदुक्तन्तन्निरस्तं । ___इतश्चैतन्निरस्तं द्रष्टव्यं यतो न प्राक्प्रध्वंसा भावाभ्याम्भावस्य कश्चित् तदुत्पत्तिलक्षणो विरोधलक्षणो वा सम्बन्धोऽसहभावित्वेनाद्विष्ठत्वात् । अत एव न विशेषणविशेष्यभावः सम्बन्धः। नापि विशेषणविशेष्यभावोऽसहभावित्वादेव। विशेषणविशेष्यरूपतायाश्च वस्तुनोऽभावात्। केवल (मन्यसम्बन्धद्वारेणा) 'यं कल्प्यते। दण्डदण्डिनोरिव। यदि च विशेषणविशेष्यभावसम्बन्धबलेन भावस्य प्रागभाव इति प्रतीतिस्तथा प्रागभावादेर्भाव इत्यपि प्रतीतिः स्यात् सम्बन्धस्याविशेषात्। तस्मात् प्रागभावादेरसम्बन्धिनो भावसम्बन्धित्वेन प्रतीतिर्धान्तिरेव ।
न चा न्यो न्या भा वो भावानामस्ति। न हि घटस्य निवृत्तिः पटस्य निवृत्तिर्भव (त्यप्रतीतेः न च पटेऽवस्थानात्सा)१ तत्सम्बन्धिनी युक्ता। एवं हि प्रागभावाद्यप्यन्योन्याभावः स्यात् कारणादाववस्थानात् । तस्मादन्याभाव एवास्ति नान्योन्याभावस्तेनान्याभावात् प्रागभावादीनां न भेद इति कथं चतुर्विधोऽभाव उच्यते।
प्रत्यक्षाभावनिराश (?) सश्च नै रा त्म्य सि द्धा वभिहित इति नेहोच्यते।
न त्वभावस्यासत्त्वेनानुभूतत्वात् (कथं प्रत्यक्षेण निश्चयः। नैष दोषो य). 14a स्मादेकज्ञानसंसर्गिणोः प्रत्यक्षेणैकस्य ग्रहणमेवान्यस्याग्रहण'न्तदग्रहणमेव च
तस्याभावग्रहणम्भावे हि तस्याग्रहणायोगाद् (1) यदाहान्यहेतुसाकल्ये तदव्यभिचाराच्चोपलम्भः सत्ता। तदभावोनुपलब्धिरसत्तान्योपलब्धिश्चानुपलब्धिरिति।
तेनायमर्थः (1) प्रत्यक्षमभावन्निश्चाययतीति तावन्न निश्चाय (यतीत्यर्थः। स च दृश्यस्य भावानिश्च) योऽभावनिश्चय एव। एवं प्रत्यक्षपृष्ठभाविनो विकल्पस्य प्रत्यक्षविषयानुसारित्वं समर्थितम्भवति। तदेवमुपलब्ध्यभावव्यवहारवद् अर्थाभावव्यवहारस्यापि प्रत्यक्षसिद्धत्वान्न लिङ्गेनासौ साध्यते। एवन्तावदमुढं
1 In the margin.