________________
२. अनुपलब्धिचिन्ता तथाऽन्यसत्तयाऽसत्ता किन्न सिध्यति ।
तथान्यसत्तयाऽसत्ता किन्न सिध्यति। तथेत्य°नुपलब्धिवत् । द्वयोरपि घटप्रदेशयोरेकज्ञानसंसर्गित्वादित्यभिप्रायः। अन्यस्य घटविविक्तस्य भूतलादेः . सत्तया सिद्धचा निषेध्यस्यार्थस्य सत्ता किन्न सिध्यति ।
ननु भावनिवृत्तिरूपोऽभावः स कथं प्रत्यक्षसिद्ध इत्युच्यते।
एवम्मन्यते। अभावो नाम नास्त्येव केवलं मूढस्य भावविषयमेव प्रत्यक्षमन्याभावं व्यवहारयति। तेन यदुक्त मर्था पत्त्याऽभावः प्रतीयत इति तदयुक्तं । यतो न तावद् घटादीनामन्योन्याभावोऽभिन्नः घटविनाशे पटाद्युत्पत्तिप्रसङ्गात् । पटाद्यभावस्य विनष्टत्वात्। अथ भिन्नोऽभावस्तदा घटादीनां परस्परं भेदो न स्यात्। यदा हि घटाभावरूपः पटो न भवति तदा पटो घट एव स्यात्। यथा वा घटस्य पटाभावाद् भिन्नत्वाद् घटरूपता तथा पटा देरपि स्यात्। घटाभावाद् भिन्नत्वादेव।
नाप्येषां परस्पराभिन्नानामभावे न भेदः शक्यते कर्तु। तस्य भिन्नाभिन्न- ) भेदकरणेऽकिंचित्करत्वात्। न चाभिन्नानामन्योन्याभावः सम्भवति। नापि परस्परभिन्नानामभावेन भेदः क्रियते स्वहेतुभ्य एव भिन्नानामुत्पत्तेः। नापि भेदव्यवहारः क्रियते। यतो भावानामात्मीयात्मीय (?) रूपेणोत्पत्तिरेव स्वतो भेदः (1) स च प्रत्यक्षप्रतिभासनादेव भेदव्यवहारहेतुः।
तेन यदुच्यते "वस्त्वसंकरसिद्धिश्चाभावप्रमाणाश्रिते"ति तदपास्तं । किञ्च (1) भावाभावयोर्भेदो नाभावनिबन्धनोऽनवस्थाप्रसंगात्। अथ स्वरूपेण भेदस्तथाभावानामपि स स्यादिति किमभावेन कल्पितेन (1) नापि प्रागभावाभावे कार्यस्यानादित्वं प्रसज्यते। हेत्वभावेनानुत्पत्तेः।
ननु' प्रागभावे सति हेतोः सकाशादुत्पत्तिः स्यान्नासति प्रागभावे विद्यमान- 13b त्वात्।
यद्येवन्न कदाचनापि कार्योत्पत्तिः स्याद् विरोधिनः प्रागभावस्य सन्निहितत्वात् । न च तद्विनाशात् कार्योत्पत्तिः प्रागभावमन्तरेण कार्योत्पत्त्यभ्युपगमप्रसङ्गात् । नापि कार्योत्पत्तिरेव प्रागभावविनाशस्तदुत्पत्तेरेव विरोधिसन्निधानेनासम्भवात् । कारणसत्ताकाले प्रागभावस्याविनाशात् । कार्योत्पत्तिकाले च तद्विनाशात् . कारणविनाशवत्। तस्मादुत्पत्तेः पूर्वं कार्यस्य न भावो नाप्यभावो धर्मोसत्त्वात्। निरंशत्वाच्च वस्तुनः । किन्तु यदोत्पद्यते तदा सत्त्वमस्यान्यदा नास्तीति व्यवह्रियते। तेनासदुत्पद्यत इत्युच्यते।
प्रध्वं सा भा बस्य चासत्त्वं स्वयमेवाचार्योभिधास्यते। यच्च यस्मादुत्पद्यते