________________
३०
प्रमाणवात्तिकस्ववृत्तिटीका (११५) हारप्रतिषेधस्य कार्यवत् । तेषां हि उपलब्धिस्सत्वात्। पुर अयं हि भावाभाव
प्रतिषेधसाधनहेतूनां सदृशो भावः। एवं उपलब्धिरेव न भावः। वस्तुयोग्यस्य 422b लक्षणं वा। अथवा' तदाश्रयज्ञानप्रवृत्तिः। ततः सत्ताज्ञानशब्दव्यवहारप्रवृत्तेः।
अनुपलब्धिहि भावानामभावः। हेतुभेदापेक्षया। क्वचिद् अभावज्ञानकार्यत्वात् हेतुहि अनुपलब्धिः तस्य भेदो हि विशेषणमिति। नोपलब्धिलक्षणप्राप्तसत्तावान। अत्र अनपलब्धिलिड्नाभावः साध्यश्चत। अनपलब्धिरपि उपलब्ध्यन्तरस्य साध्ये (ति) अनवस्थाप्रसंगात् न स्यात् प्रतिपत्तिः।
अथोपलब्ध्यभावेऽप्यनुपलब्ध्यभावः स्यात् । तथा सत्ताभावोऽपि सिद्धः स्यात् । अपार्थिकाऽनुपलब्धिः। अथान्योपलब्ध्याऽनुपलब्धिः प्रत्यक्षसिद्धाऽनुपलब्धिः ।
अप्रवृ (तिरित्यादि। केषामप्रवृत्तिः प्रमा) ' णानाम् (।) वहुवचनं व्यक्तिभेदेन प्रमाणानाम्बहुत्वात्। आगमापेक्ष'.........२
I3a सिध्यतीत्युच्यत इति। ।
एवम्मन्यते। ज्ञानज्ञेययोर्बाधा बोधरूपत्वेन विशेषाद् बोधरूपं प्रत्यक्षादिकं प्रमाणं स्वत एव सिध्यति (1) ज्ञेयन्तु घटादिकं जडरूपत्वात् प्रमाणमपेक्षते। ज्ञानज्ञेयाभावयोस्तु नीरूपत्वेन विशेषाभावात कथं ज्ञा(नाभावस्य स्वतःसिद्धि हृयाभावस्य च) ज्ञानाभावात् सिद्धिरुच्यते। अथ ज्ञानाभावो नान्येन सिध्यति । ' तथा हि ज्ञानानां स्वसम्विदितरूपत्वेनैकज्ञानसंसर्गित्वाभावात्। केवलं यदि स्वसन्ताने ज्ञानं स्याद् उपलभ्येतानुपलम्भादसदेव तदिति स्वत एव ज्ञानाभावः सिद्ध इष्यते।
तथा सत्ताऽभावोपि सिद्धः स्यात् । तत्रापि हि यदि सत्ता स्यादुपलभ्येतानुप(लम्भान्नास्तीति निश्चीयते तत्रश्चा) पार्थिकानुपलब्धिरभावसिद्धौ। विज्ञानं वान्यवस्तुनीति पक्षं दूषयितुमाह। अथेत्यादि। अन्यस्य घटादिविविक्तस्य भूतलस्योपलब्ध्या घटानुपलब्धिसिद्धि रिति प्रत्यक्षसिद्धानुपलब्धिः।
एतदुक्तम्भवति। घटग्राहकत्वस्य भूतलग्राहकस्य चैकज्ञानसंसर्गित्वाद् यदा भूतलग्राहकमेव तज्ज्ञानम्भवति। तदा घटाग्राहकत्वाभावं (निश्चाययतीति प्रतीतिप्रत्यक्षसिद्धव घटानुपलब्धिः।
1 In the margin.
2 12th leaf is missing.