________________
२९
२. अनुपलब्धिचिन्ता व्यभिचाराद् गमकत्वं नेष्यते।
भावोपि भावमात्रानुरोधिनि ॥४॥ हेतुरिति वर्त्तते। हेतोः तादात्म्यं तन्मात्रानुरोधिन्येव । नान्यायत्ते। तद्भावभाविनः पश्चाद्भावनियमाभावात्। कारणानां कार्यव्यभिचारात् ।
२-अनुपलब्धिचिन्ता
(१) दृश्यानुपलब्धिफलम् अप्रवृत्तिः प्रमाणानामप्रवृत्तिफलाऽसति ।
असज्ज्ञानफला कचिद्धतुभेदव्यपेक्षया ॥५॥ अप्रवृत्तिः प्रमाणानामनुपलब्धिः। अभावेऽप्रवृत्तिः कार्यवत्। सत्ताज्ञानशब्दव्यव
गमकत्वन्नेष्यते।
स्वभावहेतुमधिकृत्याह।
स्वभाव इत्यादि। हेतुरिति वर्त्तत इति तेषां हेतुरित्यतः। स्वभावे साध्ये किम्भूते भावमात्रानुरोधिनि हेतुसद्भावमात्रानुरोधिनि (भावो हेतुः) १ स्वभावो हेतुः । मात्रग्रहणमर्थान्तरानपेक्षासन्दर्शनार्थं । कस्मात्तन्मात्रा नुरोधिन्येव स्वभावो हेतुरित्याह। तादात्म्यं ह्यर्थस्य तन्मात्रानुरोधिन्येवेति । योसावर्थस्य साधनस्यात्मा तद्भाविन्येव। नान्यायत्ते। न कारणान्तरप्रतिबद्धे पश्चाद्भाविनि तादात्म्यं । कस्मादिति चेदाह। तद्भाव इत्यादि। तस्य हेतो वि (नि) भूतस्य कार (णान्तरायत्तस्य धर्मस्य पश्चाद् यो भा) 'वस्तस्य नियमाभावात्। न हि कारणान्तरप्रतिबद्धन पश्चाद्भाविनाऽवश्यं भवितव्यं। किङ्कारणं (1) कारणानां कार्यव्यभिचारात् । सम्भवत्प्रतिबन्धत्वात् कारणानां कुतस्तेभ्योऽवश्यम्भावः कार्यस्य ।।
ननु च साध्यस्वभावता साधनस्य न केनचिदिष्टं तत्कथमुच्यते तद्भावमात्रानुरोधिन्येव तादात्म्यमिति। एवम्मन्यते व्यति (रिक्तावपि कृतकत्वानित्यत्वाख्यौ) धर्मावप्युपगच्छद्भिरवश्यमभूत्वा भवनं भूत्वा चाभवनमभ्युपगन्तव्य:मन्यथात्मादेरिव कृतकत्वानित्यत्वे पटादेर्न स्यातां । तस्माद् यदेवाभूत्वा भवनम्भावस्य तदेव कृतकत्वं यदेव च भूत्वाऽभवनमनवस्थायित्वन्तदेवानित्यत्वमस्तु किमन्येन सामान्येन कल्पितेनेति। अनुपल.... इत्याह ।
1 In the margin.