________________
२८
प्रमाणवात्तिकस्ववृत्तिटीका (१॥३) ____अंशेन जन्यजनकभावप्रसंग इति चेत् । न। तज्जन्यलिङ्गविशेषोपाधीनां ग्रहणेऽभिमतत्वात्। यदा द्रव्यत्वादीनि अविशिष्टानि विवक्षितानि तदा तेषां
ण्डत्वादयो विशेषरूपास्तैः कारणगतः सामान्यधर्मेंविना न भवन्ति । अत्रापि तत्कार्यत्वनियमादित्यपेक्ष्यते । तेषामेव कार्यगतानां विशेष धर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् ।
यदि सामान्यधर्माणां कारणगतानां कार्यगतैविशेषधमैरेवाविनाभावाद गम्यगमकभावस्तदांशेन जन्यजनकभावः स्यात् । अग्नेः सामान्यधर्मा एव जनकाः (1) धूमस्य च विशेषधर्मा एव जन्याः स्युः । सर्वथा च जन्यजनकभावोभिमत इत्यभ्युपगमविरोधः। एतत्परिहरति (1) नांशेन जन्यजनकभावप्रसङ्गः । निरंशत्वेन वस्तुनः सर्वथा जन्यजनकत्वाभ्युपगमात् । गम्यगमकभावस्यापि सर्वथाभिमतत्वात् । तदाह। तज्जन्येत्यादि। यदि हि कार्यस्य तैः कारणगतविशेषधमॆर्जन्यो यो विशेषः स ग्रहीतुं शक्यते ज्ञापकहेत्वधि
कारात् । तदा तज्जन्यविशेषग्रहणेऽभिमतत्वात् कारणगतविशेषधर्माणां IIb गम्यत्वस्य । तथा ह्यगुरु'धूमग्रहणे भवत्येव तदग्नेरनुमानं। तथा लिङ्गविशेषो
लिङ्गमेव विशेषो धूमलक्षणः स उपाधिर्विशेषणं येषां द्रव्यत्वादीनान्तेषां ग्रहणेऽभिमतत्वाद् गमकत्वस्य। न हि धूमेन विशेषिता द्रव्यत्वादयोऽग्निं व्यभिचरन्ति।
ननु धूम एव तत्र गमको न तु तद्विशिष्टा द्रव्यत्वादयः। यथा कृतकत्वे सति प्रमेयत्वादित्यत्र कृतकत्वमेव गमकं न प्रमेयत्वं ।
सत्यमेतद् । अव्यभिचारमात्रप्रदर्शनार्थन्त्वेवमभिधानमित्येके। अन्यस्त्वाह। न धूमस्य व्यभिचारादिह सामान्योपादानं किन्तर्हि सर्वेषां प्रतिपत्तणां दृष्टे वस्तुनि सामान्याकारे प्रतिपत्तिर्भवति पश्चाद् विशेषावसाय: (1) तत्र च यदुपात्तं सामान्यन्तदपरित्यक्तमेव। तस्मात् प्रतिपत्तुरध्यवसायवशाद् विशेषोपहितं सामान्यङ्गमकम्भवति न विशेषस्य व्यभिचारादिति । ___ युक्तमेतत् । केवलं यद्येष नियमः सामान्यप्रतिपत्तिपुरस्सरैव विशेषप्रतिपत्तिः (1) कथन्तर्हि धूममात्रस्य द्रव्यत्वादिरहितस्य प्रतीतिः। पूर्वोक्तं च चोद्यन्तदवस्थमेव । तस्मादिदमत्र साधु (1) लिङ्गविशेषस्य सामान्यविशेषणत्वेनैवोपादाना (द्) अहेतुत्वं हेतुत्वोपादाने हि हेतुत्वं स्यान्नान्यथा। ___कदा तर्हि लिङ्गगतानां सामान्यधर्माणामगमकत्वमित्याह । अविशिष्टेत्यादि । यदा द्रव्यत्वादीन्यविशिष्टानि विवक्षितानि तदा तेषां व्यभिचाराद