________________
२७
१. हेतुचिन्ता सर्वथा जन्यजनकभावादिति चेत् । न। तदभावे भवतस्तदुत्पत्तिनियमाभावात् । एवं हि (1)
कार्य स्वभावैर्यावद्भिरविनाभावि कारणे ।
हेतुः स्वभाव हेतुः, तत्कार्यत्वनियमात् । तैरेव ये तैविना न भवन्ति।
गमकङ्कारणस्येत्यध्याहारः सर्वथा गम्य गमकभावः प्राप्तः । अग्नेः सामान्य- Ira धर्मवद्विशेषधर्मा अपि तार्णपाण्र्णादयो गम्याः स्युः। धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयोपि सामान्यधर्मा गमका भवेयुः। कुतः। सर्वथा जन्यजनकभावात् (।) तथा हि यथाग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः (सामान्यधमर्जनकः तथा ताणपाण्र्णादिभि) विशेषैरपि । यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैविशेषधमैर्युक्तो जन्यस्तथा सामान्यधर्मैरपि सत्त्वद्रव्यत्वादिभिस्ततश्च यथानयोः कार्यकारणभावस्तथैव गम्यगमकभावः स्यादित्यत आह। . .
नेत्यादि। न सर्वथा जन्यजनकभावस्ततश्च कुतस्तथा गम्यगमकभावः स्यात् । कस्मादिति चेत् । तदभावे तेषान्तार्ण (पार्णत्वादीनां विशेषधाणामभावे) भवतो धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीत्येवमात्मनस्तदुत्पत्तिनियमस्याभावात्। तथा तवभावेऽग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्मस्याग्नेरेवायं भवतीत्येवं रूपस्य तदुत्पत्तिनियमस्याभावात्। कुतः सर्वथा जन्यजनकभावो यतः सर्वथा गम्यगमकभावः स्यात् ॥.
.यत एवन्तस्मात् कार्य धूमादिकं स्वभावैर्या (वद्भि—मत्वादिभिः स्वगत) '. रित्थंभूतलक्षणा तृतीया। अविनाभावि। विना न भवति । क्वाविनाभावि (1) कारणे। कारणविषये। यद्वा कारणे इत्याधारसप्तमी। कारणस्थैः स्वभावैविद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि। तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकमित्यर्थः। किङ्कारणं (1) तत्कार्यत्वनियमात् । तेषामेव कारणगतानां सामान्यधर्माणान्तत्कार्यमित्ये (वं रूपस्य निय) 'मस्य सद्भावात् । न हि तत्सामान्यधर्मात् कदाचिदपि कार्य व्यभिचरति। एवन्तावत् कारणगताः सामान्यधर्मा गम्या इत्याख्यातं ।
कार्यगतास्तु विशेषधर्मा गमका इति दर्शयन्नाह। तैरेवेत्यादि। कार्यमपि तैरेव धर्मैः स्वगतैः कारणगतानां धर्माणां गमकाः। येर्थान्तरासम्भविनो धूमत्वपा
1 In the margin.