________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३) ___ यदि तदुत्पत्तेः कार्य गमकं सर्वथा गम्यगमकभावः प्राप्तः।
___ सदयुक्तं यतो लोके धूममात्रमग्निमात्रव्याप्तं यत्र धर्मिणि दृश्यते तत्रैवाग्निप्रतीतिर्भवतीति कस्यात्रोपचार एवं च समुदायस्यापि साध्यत्वं सिध्यति । यदाह। "केवल एव धर्मो धर्मिणि साध्यस्तथेष्टसमुदायस्य सिद्धिः कृता भवती"ति (1) न चानुमानविषये साध्यशब्दोपचारे सत्यनुमानमुपचरितन्नाम। ____ अथ प्रमाणस्यागौणत्वादभ्रान्तत्वादनुमानस्य तु भ्रान्तत्वादप्रामाण्यमित्युच्यते।
तदयुक्तं (1) भ्रान्तस्याप्यग्न्यनुमानस्य तदुत्पत्त्या बाह्याग्न्यध्यवसायेन लोके प्रामाण्यदर्शनात् प्रत्यक्षवत् । अथ प्रत्यक्षमपि प्रमाणन्नेष्यते तदा लोकप्रतीतिबाधा। प्रत्यक्षानुमानयोः प्रमाणयोर्लोकप्रतीतत्वात् ।
अथ नैव प्रत्यक्षानुमानयोः प्रमाणत्वं प्रतिषिध्यते। किन्तु लिङ्गन्त्रिलक्षणं चतुर्लक्षणं वा न केनचित् प्रमाणेन सिद्धमिति पर्य*नुयोगे यद्यनुमानमुच्यते साधकं । पुनस्तत्रापि स एव पर्यनुयोग इत्येवं सर्वत्र पर्यनुयोगपराण्येव सूत्राणि । तथा च सूत्रं (1) - "विशेषेनुगमाभावः सामान्य सिद्धसाधनमि"ति' (1)
तदप्ययुक्तं । पूर्वमेव नरूप्यग्राहकस्य प्रमाणस्य व्याप्तिवचनेनाक्षिप्तत्वात् । (न चाप्रमाणकेन परः)२ पर्यनुयुज्यते वादिप्रतिवादिनोरसिद्धत्वात् ।
अथ वचनात्मकमनुमानं न वक्तुः प्रमाणमथ (व) चनेन परं प्रतिपादयति तथाऽप्रमाणकेन पर्यनुयोगः क्रियत इति।
तदप्ययुक्तं । द्वयोरपि हि वचनादर्थप्रतीतिः प्रमाणभूतवोत्पद्यतेऽर्थपरिच्छेदकत्वात् केवलम्वक्तुरधिगमस्य निष्पन्नत्वात् प्रमाणं नो वा तेन पुनरप्रमा (णं " भवत्यप्रामाण्ये वा द्वयोरप्यप्रमा) णमिति कथन्ततीर्थप्रतीतिः ।।
यदप्युच्यते (1) "परसिद्धनानुमानेनानुमा नन्निषिध्यत" इति तदप्येतेन निरस्तमिति। संयोगवशाद् गमकत्वे।
"न च केनचिदनेन न संयोगी हुताशनः ।
धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनमि"ति। यः सर्वथा गम्यगमकभावप्रसंग आचार्य दिग्नागे नाक्षिप्तं परं प्रति तदिहापि कार्य (हेतौ आशङ्कते यदीत्यादिना) साध्यादुत्पत्तेः कारणात् कार्य
1 Pramāna-Samuccaya.
2 In the margin.