________________
२५
१. हेतुचिन्ता तदुत्पत्तेः तदव्यभिचारिणौ । इति प्रमाणं प्रत्यक्षवत् ।
प्रत्यक्षस्यापि (प्रामाण्यं) अर्थाव्यभिचार एवेति। तदभाव भाविनः तद्विप्रलम्भात्। अव्यभिचारश्चान्यस्य कोन्यस्तदुत्पत्तः। अनायत्तरूपाणां सहभाव- 422a नियमाभावात्।
स्वभावकारणयोरनुमेययोः प्रत्ययावित्यनुमेयप्रत्ययौ अतत्प्रतिभासित्वेपीत्यनुमेयस्वलक्षणाप्रतिभासित्वेपि । अतत्प्रतिभासित्वन्ततः साक्षावनुत्पत्तेः। कथन्तीव्यभिचार इत्याह। तदुत्पत्तरित्यनुमेयाभ्यां स्वभावकारणाभ्यां पा रम्पर्येणोत्पत्तेः । तदव्यभिचारिणावित्यनुमेयाव्यभिचारिणौ। इति हेतोः प्रमाणं प्रत्यक्षवत् ।
तेन यदुच्यते ऽ वि द्ध क णे ना“नधिगतार्थपरिच्छित्तिः प्रमाणमतो नानुमानम्प्रमाणमर्थपरिच्छेदकत्वाभावादि"ति तदपास्तं । यतः सर्व एव प्रेक्षावान् प्रवृत्तिकामः प्रमाणमन्वेषते प्रवृत्तिविषयार्थोपदर्शकत्वेन प्रवृत्तिविषयश्चार्थोऽर्थक्रियासमर्थ एव। न चानागतं प्रवृत्तिसाध्यार्थक्रिया सामर्थ्यम्वस्तुनः प्रत्यक्षम्परिच्छिनत्तीत्युक्तमतः कथमस्यार्थपरिच्छेदमात्रात्प्रामाण्यं । तस्मात् स्वविषये तदुत्पत्त्या प्रत्यक्षं यन्मया पूर्वप्रतिपन्नं प्रबन्धेनार्थक्रियाकारि तदेवेदमिति निश्चयं कुर्वत् प्रवर्तकत्वात् प्रमाणन्तथानुमानमपि। __प्रत्यक्षस्यापीत्यादिना व्याप्तिमाह। अर्थाव्यभिचार एवेति । पूर्वमभिमतार्थ कारित्वेन निश्चितस्यार्थस्य सम्भवे सति भाव एव प्रत्यक्षस्य प्रामाण्यमन्यथा तदभावे अर्थाभावे भाविनः प्रत्यक्षस्य तद्विप्रलम्भान्निश्चितार्थासम्वादात् । एतदुक्तम्भवति। यदार्थक्रियासमर्थम्वस्तु प्रत्यक्षं न परिच्छिनत्ति। यदि च तथाभूतमपि वस्तु व्यभिचरेत्प्रमाणमपि न स्यात् । अव्यभिचारश्चान्यस्य कोन्यस्तदुत्पत्तेरित्यन्यस्यार्थान्तरभूतस्य' योन्येन सहाव्यभिचारः स तदुत्पत्तेः कोन्यो नैवान्यः। Iob तदुत्पत्तिरेवाव्यभिचार इत्यर्थः। .. कस्माद् (।) अनायत्तरूपाणामप्रतिबद्धस्वभावानां सहभावनियमाभावादव्यभिचारनियमाभावात् । तस्मादर्थक्रियाकारित्वेन निश्चितादादुत्पत्तिरेव प्रत्यक्षस्याव्यभिचार इति प्रामाण्यन्तच्चानुमानेप्यस्तीति समं द्वयमिति भावः।
एतेनैतदपि निरस्तं "प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभ' इति । यद्यगौणत्वमनुपचरितत्वमुच्यते तदानुमानमप्यनुपचरितमेवास्खलढुद्धिरूपत्वात् । ____ अथ धर्मर्मिसमुदायस्य साध्यत्वे हेतोः पक्षधर्मत्वमन्वयो वा न सम्भवति तेन पक्षधर्मत्वप्रसिद्ध्यर्थं धर्मिणः साध्यत्वमुपचरितव्यमन्वयसिव्यर्थञ्च धर्मस्येत्येवमुपचरितविषयत्वादनुमानमुपचरितं ।