________________
P4 .
प्रमाणवात्तिकस्ववृत्तिटीका (११३) ___ तथा चानुमानानु मेयव्यवहारोऽयं सर्वो हि बुद्धिपरिकल्पितो बुद्ध्यारूढेन धर्मर्मिभेदेनेति उक्तम्। धर्मर्मितया भेदो बुद्ध्याकारकृतो नार्थोऽपि। बुद्धि(विकल्प) भेदानां स्वेच्छामात्रानुरोधिना' अनर्थाश्रयात्। तत्कल्पितविषयादर्थप्रतीतावनर्थप्रतिलम्भ एव स्यात्। कार्यस्यापि स्वभावप्रतिबन्धः। तत्स्वभावस्य तदुत्पत्तेः। एतावनुमेयप्रत्ययौ अतत्प्रतिभासित्वेऽपि साक्षादनुत्पत्तेः ।
आचार्य दि ग्ना गे नाप्येतदुक्तमित्याह। तथा चेत्यादि। सर्व एवेति: यत्रापि साध्यसाधनयोरग्निधूमयोर्वास्तवो भेदस्तत्रापि स्वलक्षणेन व्यवहारायोगादनुमीयतेनेनेत्यनुमानलिङ्गमनुमेयः साध्यधर्मी साध्यधर्मश्च तेषां व्यवहारो नानात्वप्रतिरूपः। बुद्ध्यारूढेन धर्मधर्मिणो (भैदस्तेन बुद्धिप्रतिभासगतेन) ३
भिन्नेन रूपेण भेदव्यवहार इति यावत् । यदि तर्हि बुद्धिपरिकल्पितो धर्मर्मिIoa व्यवहार एवन्तर्हि कल्पिताद्धेतोः साध्यसिद्धिः प्राप्ता। ततश्च हेतुदोषो यावानुच्यते स सर्वः स्यात्। तदाह भट्टः॥२
"यदि वा विद्यमानोपि भेदो बुद्धिप्रकल्पितः (।) साध्यसाधनधर्मादेर्व्यवहाराय कल्प्यते ॥ ततो भवत्प्रयुक्तेस्मिन् साधनं या(वदुच्यते ।
सर्वत्रोत्पद्यते बुद्धिरिति) ३ दूषणता भवेदिति । अत्राह। भेद इत्यादि। एतदाहार्थ एव वार्थं गमयति केवलं धर्मधर्मितयाऽयं धर्मोऽयं धर्मीति यो भेदो नानात्वमयमेव बुद्धयाकारकृतो बुढ्या परिकल्पितो नार्थोपि न लिङ्गमपि बुद्धयाकारकृतम् (1) विकल्पनिर्मितादेव लिङ्गात् कस्माद् अर्थप्रतिपत्तिर्न भवतीत्याह। विकल्पेत्यादि। विकल्पभेदानां विकल्पविशे(षाणामिच्छामात्रानुरोधित्वेन स्वत) न्त्राणामनर्थाश्रयादर्थाप्रतिबद्धत्वे (साक्षादनुत्पत्ते) लिम्बनत्वादित्यर्थः। तैरर्थी नाश्रयै विकल्प: कल्पितश्चासौ विषयश्चेति तत्कल्पितविषयस्तस्मादेवंभूताद्धेतोरर्थप्रतीतावभ्युपगम्यमानायामनर्थप्रतिलम्भ एव स्यादर्थप्रतिलम्भ एव न स्यात्।
द्वितीयं प्रतिबन्धलक्षणमाह। कार्यस्यापीत्यादि। तत्स्वभावस्येति कार्यस्वभावस्य तदुत्पत्तेः का (रणादुत्पत्तेर् योऽनुमा) नस्य प्रामाण्यं नेच्छति तं प्रत्याह। एतावनुमेयप्रत्ययौ प्रमाणमिति सम्बन्धः। एताविति स्वभावकार्यलिङ्गौ । अनुपलब्धेः स्वभावहेतावन्तर्भावाद् द्वावित्याह। यद्वा प्रक्रान्तापेक्षया द्वावित्याह।
2 Slokavārtika, Niralamba 171-72.
1 Ran-dgah-va-rnams. 8 In the margin.