________________
१. हेतुचिन्ता
२३ स्वभावप्रतिबद्धत्वेऽर्थोऽर्थ न व्यभिचरति । स च तदात्मत्वात्। तदात्मत्वे साध्यसाधनयोर्भेदाभाव इति चेत्। न। धर्मभेदानां परिकल्पनात् इत्युच्यते।
यो पि मन्यतेऽनुपलम्भेऽसद्व्यवहारयोग्यता साध्यते न प्रतिषेधः । योग्यता च स्वभावभूतैव। तथाग्निमति प्रदेशे साध्ये अग्निमत्ता प्रदेशस्य स्वभाव एव साध्यो धूमवत्त्वादिति च हेतुः। प्रदेशाभिन्न इति सर्वो हेतुः स्वभावहेतुरेवेति (1) तदयुक्तम् (।) एवं हि गमकत्वे गर्दभत्वादेरपि गमकत्वं स्यात् (1) न भवत्यग्निकार्यत्वाभावाद् गर्दभस्येति चेत्। यद्येवं धूमस्याग्निकार्यत्वमेव गमकत्वे निबन्धनमिति कथं न कार्यहेतुः ।
अन्य-स्तु मन्यते"ऽनुपलम्भस्तु प्रदेशकार्य इत्यसद्व्यवहारे साध्ये कार्यहेतुरेव। कृतकविकल्पश्चानित्यशब्दकार्य इति सर्व एव हेतुः कार्यहेतुरि"ति।
तदप्ययुक्तं (1) कृतकविकल्पो हि कृतककारणत्वात् तस्यैवानुमापकः स्यान्नानित्यस्य। कृतकस्यानित्यस्वभावत्वादनित्यत्वं साधयतीति चे पद्यवं कृतकत्वादेवानित्यत्वप्रतीतिः स्यान्न कृतकविकल्पात् । कृतकस्वभावतयैवानित्यत्वे गमकत्वात । यद्वा कृतकविकल्पश्च स्यान्न वानित्य इत्यनैकान्तः । कृतकविकल्पजननसामर्थ्यं कृतकाव्यतिरिक्तन्तच्च न पूर्वन्न पश्चात्तेनासावनित्योऽव्यतिरिक्तन्तर्हि सामर्थ्यमनित्यत्वं साधयतीति कथं न स्वभावो हेतुरिति यत्किञ्चिदेतत्।
किं पुनवेव वस्तुसाधनावित्याह। स्वभावेन प्रतिबन्धः “साधनं कृते"ति समासः। स्वभावेन प्रतिबद्धत्वं । प्रतिबद्धस्वभावमिति यावत् । तस्मिन् सत्यर्थो लिंगमर्थमिति लिङ्गिनं न व्यभिचरति । ___ स च स्वभावप्रतिबन्धः कुत इत्याह । तदात्मत्वादिति साध्यस्वभावत्वात् । तदात्मत्वे साध्यस्वभावात्मत्वे साधनस्य। यदेव साध्यन्तदेव साध(नमिति साध्यसाधनयो) भैदाभावस्तेन प्रतिज्ञार्थंकदेशो हेतुरिति परमाशङक्याह। नेत्यादि। साभ्यसाधनभूतानां धर्मभेदानां व्यावृत्तिभेदेन परिकल्पनादारोपाद् (1)
एतदुक्तम्भवति। धर्मभेदः समारोप्यते तेन साध्यसाधनभेदः। यतो निश्चितो गमको निश्चेतव्यश्च गम्य उच्यते। निश्चयविषयश्चारोपित एवेति निश्चयभेदारोपितो धर्म (भेदः। एतच्च वक्ष्यामोऽन्यापोहप्र)स्तावे।'
1 In the margin.
2 Pramāņavārtika 3:163-73.