________________
प्रमाणवात्तिकस्ववृत्तिटीका (११३) यदि स्यादुपलम्भयोग्यभाववदेव स्यात् नान्यथा। तेनोपलब्धिलक्षणप्राप्तसत्त्वं ततस्येत्युक्म् । तत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः।
सामग्र्यां सत्यां यदि स्यात् पूर्वकालवदुपलभ्येतेत्येवमुपलब्धिलक्षणप्राप्तत्वं बुद्ध्या परामृश्य भावस्याप्रतिभासनान्नास्तीति निषेधः क्रियते। न त्वदृश्यस्य । प्रतिभासपरामर्शोपायाभावात् । सर्वदाप्रतिपन्नत्वात्।
ननु दृश्यस्याभावे सति सैव सामग्री कथं प्रतिपन्नेति चेत्। न। एकज्ञानविषययोर्भावयोरेको (पलम्भादिति)१ ब्रूमः। स्वत एव च निषिध्यमानस्योपलब्धिलक्षणप्राप्तत्वन्निश्चीयते । एतदेवैक ज्ञानजननयोग्यतयोपलब्धिलक्षणप्राप्तत्वन्दर्शयितुमाह।
यदि स्याद् घटादिरुपलभ्यं सत्त्वं यस्य स तथाभूत एव स्यात्। नान्यथेति न कदाचिदग्राह्यस्तथाभूतोऽवश्यं ज्ञानन्न व्यभिचरतीति यावत् । यत एवन्तेन कारणेन। उपलब्धिलक्षणप्राप्तस्येति यद्विशेषणमुक्तन्तदर्थादुपलब्धिलक्षणप्राप्तसत्त्वस्येत्युक्तम्भवति। अत्र त्वयं बाह्यार्थः। लक्ष्यतेऽनेनेति लक्षणं। उपलब्धिरेव लक्षणन्तत्प्राप्तमुपलब्धिलक्षणप्राप्तं ज्ञानेनाव्यभिचरितसम्बन्धमित्यर्थः । एवंभूतं सत्त्वं यस्य तत्तथोक्तं। तथाभूतं हि सत्त्वं ज्ञानं निवृत्त्यावश्यं निवर्त्तत इति भावः। विधिप्रतिषेधाभ्यां सर्वं साधनं व्याप्तं। विधीयमानश्च साध्यः प्रतिबन्धद्वयन भिद्यत इति विधिप्रतिषेधौ हेतुत्रयायत्ताविति दर्शयन्नाह। तत्रेत्यादि। ___ तत्र त्रिषु हेतुषु द्वौ कार्यस्वभावहेतू वस्तुसाधनौ विधिसाधनौ। द्वावेवेति चावधारणं न तु वस्तुसाधनावेवेति। आभ्यां सामर्थ्याद् व्यवच्छेदस्यापि सिद्धेः । एकः प्रतिषेधहेतुरिति । उक्तलक्षणोनुपलम्भः प्रतिषेधहेतुरेव। न त्वेक एवेत्यवधार्यते पूर्वाभ्यामपि व्यवच्छेदगतेः।
कश्चिदाह। "व्यवच्छेदः शब्दलिङ्गाभ्यां प्रसाध्यते यावांश्चिद् व्यवच्छेदः' स सर्वोनुपलम्भादेवेत्यनुपलम्भ एवैको हेतुरि''ति । __ तदयुक्त। यतो न तावत् प्रमाणव्यापारापेक्षयैतदुच्यते। वस्तुन्येव प्रमाणव्यापारात्। तदाहात एव वस्तुविषयं प्रामाण्यं द्वयोरिति । नाप्यध्यवसायवशादेतदुच्यते वस्तुन एवाध्यवसायात् । व्यवच्छेदेन सह लिंगस्य सम्बन्धाभावाच्च।
1In the margin. -