________________
१. हेतुचिन्ता प्रदेशविशेषे क्वचिन्न घट उपलब्धिलक्षणप्राप्तस्य अनुपलब्धः।
उ म्वे क स्त्वत्राह। “स्वभावहेतोर्गमकत्वं दूरोत्सारि (तमेव। भेदाधिष्ठान) 'त्वाद् गम्यगमकभावस्य । न ह्यभिन्ने प्रतिबन्धो नाम । न शिडशपा वृक्षात्मिका। ततो व्यावर्त्तमानत्वात् । यो हि यस्माद् व्यावर्त्तते न स तदात्मा। घटादिव पटः। व्यावर्त्तते च खदिरादिभ्यः शिशंपेत्यतदात्मिका। तदात्मत्वे च लिङ्गग्रहणवेलायामेवाव्यतिरेकात् * साध्यस्वरूपवल्लिङ्गाग्रहणवत्त्वं साध्यस्य गृहीतत्वादनुमे (यत्वहानिः। तादात्म्येन च शिं) 'शपात्वस्य गमकत्वे तादात्म्याविशेषाद् वृक्षत्वस्य शिंशपां प्रति गमकत्वप्रसङ्गः। अथास्यानियतत्वादगमकत्वं नियततैव तर्हि गमकत्वे निमित्तं न तु तादात्म्यं व्यभिचारिण्यपि वृक्षत्वे तादात्म्यस्य दर्शनात्। अथ तदात्मनैव वृक्षे नास्ति शिंशपापि तर्हि... . . . . . . .न. . तदात्मिका। सर्वथा ययोरेवक)त्व.न. तयो गेम्यगमक (भावो नानात्म्ये तु तादात्म्याभावः ।) एवमशिंशपाऽवृक्षापोहयोरपोहबुयोर्वा गम्यगमकभावो निराकर्तव्य" इति। [ मीमांसा श्लोकवार्तिक भटोम्बकवृत्ति पृ. .. तदयुक्तं। शिशपा हि वृक्षविशेषस्वभावा। वृक्षविशेषोपि शिंशपास्वभाव एवेत्युभयगतन्तादात्म्यं । तादात्म्येपि च कश्चिदवृक्षव्यावृत्ते स्वभावे कथंचिन्मूढो नाशिंशपाव्यावृत्ते (1) तेन शिंशपादेलिङ्गस्य ग्रहणान्नानु (मेयत्वहानिः । यतश्च न वृक्षमात्र) स्वभावा शिंशपा (1) तेन न वृक्षत्वस्य शिंशपां प्रति गमकत्वं । साध्यसाधनाद्य भावदोषन्तु स्वयमेव शास्त्रकारो निराकरिष्यतीति यत्किञ्चिदेतत्। । प्रदेश इत्यनुपलब्धेः कथनं। प्रदेशविशेष इत्युद्दिष्टे देशे। क्वचिदिति वादिप्रतिवादिप्रसिद्ध । न घट इति घटाभावव्यवहारः साध्यः । उपलब्धीत्यादिना हेतुनिर्देशः। उपलब्धे (र्लक्षणानि करणानि चक्षुरादीन्य) 'प्रतिबद्धसामर्थ्याचुपलब्धिलक्षणानि। तानि प्राप्तः स्वाभासज्ञानजननयोग्यः स्वभावविशेषः । स्वज्ञानजननसामग्र्यन्तर्भूतोर्थ इत्यर्थः। तस्यानुपलब्धस्तथाभूतस्यासद्व्यवहारसिद्धिः।
कथं पुनर्यो यत्र नास्ति स तत्रोपलब्धिलक्षणप्राप्तो भवति। उपलब्धिलक्षणप्राप्तत्वं हि ज्ञानविषयत्वन्तस्मिश्च सति कुतो नास्तित्वं ।
उच्यते। यावत्यां (सामग्र्यां सत्यां पूर्व प्रति) पन्नो भावस्तावत्यामेव
1 In the margin.