________________
२०
प्रमाणवात्तिकस्ववृत्तिटीका (१।३) ___त एते कार्यस्वभावानुपलब्धिलक्षणा हेतवस्त्रयः। यथा धूमादग्निरत्र, शिंशपात्वाद् वृक्षोयम्।
त एत इति । पक्षधर्मत्वेन यथोक्तया च व्याप्त्या युक्ताः कार्यस्वभावानुपलब्धयो लक्षणं स्वभावो येषान्ते तथोक्ताः। धमादिति कार्यहेतोराख्यानं। अग्निरत्रेति साध्यफलस्य। न त्वयम्पक्षप्रयोग' (1)
ननु यः प्रदेशोग्निसम्बन्धी सोप्रत्यक्षः। यश्च प्रत्यक्षो नभोभागरूप आलोकाद्यात्मा धूमवत्तया दृश्यमानो न सोग्निमानतः कथं प्रदेशे धूमस्य प्रत्यक्षतः सिद्धिस्तस्माद् धूम एव धर्मी युक्तः । .
( "साग्निरयं धमो धमत्वादित्येवं साध्यसाधनभाव" इत्य द्यो त क र': । तस्यापि साग्नेर्धमावयवस्याप्रत्यक्षत्वात परिदृश्यमानस्य चोर्दध्वभागवर्तिनोग्निना सहावृत्तेः कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतो निश्चयः। धूमावयवी प्रत्यक्ष इति चेत् । न (1) अवयवव्यतिरेकेण तस्याभावात्। लोकाध्यवसायः तस्यैकत्वे वा प्रदेशस्यापि तावतः कल्पितमेकात्मकत्वं न वार्यते। प्रदेश एव च लोकोग्निं प्रतिपद्यते न धूम धर्मिणि । तेन यद्यग्नेरनुमानमिष्यते प्रदेश एव धर्मिण्यनुमानमस्त्वित्येवम्परमेतत्। ___ न त्वत्र पूर्वोक्तो दोषपरिहार इत्येके। यद्वा दृश्यमानः प्रदेशो धर्मी अधस्तादग्निमानित्येतावत् साध्यधर्मो नाग्निमात्रं। ईदृग्विधेन च साध्यधर्मेण पूर्वमेव व्याप्तिः प्रतिपन्ना। धूमश्चात्र प्रत्यक्षसिद्ध इति कथं नानुमानं। यत्तु देशाद्यपेक्षया कार्यहेतोर्गमकत्वमत्रोच्यते । तदसङ्गतमेव देशादेविशेषणस्यासिद्धत्वात्। धूममात्रदर्शनादेवास्य साध्यस्य सिद्धत्वाच्च। यद्वा प्रदेशेऽग्निं . दृष्ट्वा किंशुकादिरूपेण सन्देहं यदा धूमदर्शनान्निवर्तयति । तदैतदुदाहरणं द्रष्टव्यं । तदा हि प्रत्यक्षेण धर्मी साधनधर्मश्च सिद्धो भवति । ___ यत्तूच्यते (1) प्रत्यक्षाप्रत्यक्षरूप एव धर्मिण्यनुमानमिति। तदयुक्त। प्रत्यक्षाशे यद्यपि हेतुः सिद्धस्तथापि न तत्र साध्यधर्मानुमानं प्रत्यक्षबाधितत्वात् । परोक्षाडशे तु स्यादनुमानं केवलन्तत्र हेतुरसिद्धः । न च प्रत्यक्ष प्रत्यक्षरूपस्य धर्मिणो धर्मः प्रत्यक्षसिद्धोऽप्रत्यक्षेडशे प्रत्यक्षाव्यापारात् । यदा वा श्रवणग्राह्य शब्देऽनित्यत्वानुमानन्तदा कथं धर्मिणः प्रत्यक्षाप्रत्यक्षरूपतेति यत्किञ्चिदेतत् ।
शिशपात्वादिति स्वभावहेतोरदाहरणं।
1 Cf. Nyāyavārtika (1:1:5).