________________
१. हेतुचिन्ता
पक्ष ) धर्मश्च किं यथास्वं प्रमाणेन निश्चित उक्तो वेदितव्य इति सम्बन्धः पक्षधर्म्मवचनेनैव। एवं च त्रैरूप्यमेवोक्तं लिंगस्येत्यविरोधः ।
तेन यदुच्यते ऽवि द्ध कर्णेन । “सत्यमनुमानमिष्यत एवास्माभिः प्रमाणं लोकप्रतीतत्वात् केवलं लिंगलक्षणमयुक्त" मिति तदपास्तं । त्रैरूप्यस्यापि लिङ्गलक्षणस्य लोकप्रतीतत्वात् धूमादाविव ।
ननु कथं यथास्वं प्रमा(णेन पक्षधर्मनिश्चयः ) सामान्यस्य लिङ्गत्वात् तस्य च प्रत्यक्षेण स्वलक्षणविषयत्वेनाग्रहणात् । अंगृहीतस्य चालिंगत्वात् । गृहीतस्य च स्वलक्षणस्यानन्वयेनालिंगत्वात् । नाप्यनुमानेन सामान्यग्रहणन्तलिङ्गस्यापि सामान्यरूपत्वेन प्रत्यक्षेणाग्रहणादनुमानेन ग्रहणेऽनवस्थाप्रसङ्गात् ॥
तदाह ।
१६
“लिङ्गलिङग्यनुमानानामानन्त्यादेकलिङ्गिनि । गतिर्युगसहस्रेषु बहुष्वपि न ( विद्यत ) '
१" इति ।
अथ कार्यस्वभावविकल्पप्रतिभासि सामान्यं कार्यादिदर्शनाश्रयतया तदध्यव'सायाच्च कार्यादिहेतुरित्युच्यते ।
तदयुक्तं ( 1 ) तस्यापि विकल्पाव्यतिरिक्तत्वाद् विकल्पवद् अन्यत्र विकल्पान्तरेऽननुगमात् कथं सामान्यं लिंगं । तस्माद् विजातीयव्यावृत्तमेव धूमादे रूपं ज्ञापकहेत्वधिकारात् प्रत्यक्षनिश्चितविशेषानवधारणेन सामान्यलक्षणं लिंगमुच्यते । न तु विजातीयव्यावृत्तिर्विकल्पाकारो वाऽवस्तुत्वात्। तेनायमर्थः । प्रत्यक्षपृष्ठभाविना निश्चयेनाधूमव्यावृत्तरूपावधारणेन धूमादिस्वलक्षणमिदं प्रतिभासमानं कदाचित्तार्णम्पार्णमन्यद्वेति विशेषानवधारणेन चानेकस्वलक्षणरूपं सामान्यलक्षणं लिङ्गं प्रत्यक्षविषये व्यवस्थाप्यते । यथा च लिङ्गस्य विशेषानवधारणेन सामान्यरूपत्वन्तथा साध्यस्यापि । तदाह ।
"अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् ( 1 )
सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेरिति ।
人
तथाभूतस्य च सामान्यलक्षणस्य लिङ्गस्य साध्यकार्यत्वं साध्यस्वभावत्वं च वस्तुत्वादविरुद्धं । तच्च लिङ्गं प्रत्यक्षादिनिश्चितमिति सर्वं सुस्थं ॥
त एत इत्यादिना त्रिधैव स इत्येतद् व्याचष्टे ।
1 In the margin.
2 Slokavārtika. 153:3