SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १८ प्रमाणवार्त्तिकस्ववृत्तिटीका ( १ ३ ) पक्षधर्मश्च यथास्वं प्रमाणेन निश्चितः । “यः सवित्रुदयो भावी न तेनाद्योदयोन्वितः । अथ चाद्योदयात् सोपि भविता श्वोनुमीयते ।। व्योम्नि दृष्टं च धूमाग्रं भूमौ बह्निः प्रतीयते । ( धूमाग्रमग्नैरन्वेति न च भूमौ प्रति ) ' ष्ठितः ॥ एवन्न देशकालाभ्यां लिङ्ग लिङग्यनुगच्छति । तस्मान्नास्यान्वयो नाम सम्बन्धोशः प्रतीयत " इति ( 1 ) तदपास्तं । यतश्च यथोपवर्णितः साध्यान्वयो हेतुर्विद्यते । प्रत्युक्तं । तेनैतदपि तदप्यपास्तं । “प्रत्याख्येयैवमेवेह व्याप्तिसम्बन्धकल्पना । यो हि नान्वीयते येन स तेन व्याप्यते कुत" इति । अत एवेदृशीम्परपरिकल्पि ( तां व्याप्ति निराकर्त्तुमा चा र्यो व्यापकस्य ) १ 8 तत्र भाव इत्यादिना लौकिकीव्याप्तिन्दर्शितवान् । सम्बन्धग्राहकं प्रमाणं लिङ्गस्य साध्यायत्तताग्राहकं । यच्च तदायत्ततां गृह्णाति तदेवान्वयव्यतिरेकात्मिकाया व्याप्तेग्रहकं । साध्यायत्तताया एव व्याप्तिरूपत्वात् । तस्माद् व्याप्तिग्राहकादेव प्रमाणात् यत्र व्याप्यसम्भवस्तत्र व्यापकभावो यत्र व्यापकाभावस्तत्र व्याप्याभाव इत्य ( भावेपि निश्चयो भवति । तेन यदुच्यते) ' [कुमारिल] भट्टेन । G " सामान्यविषयत्वाच्च न प्रत्यक्षेन्वयम्भवे ( त्) । न चानुमीयते पूर्वमविज्ञा- तान्वयान्तरात् ॥ अथान्वयेर्नुमानं स्यादन्वयान्तरवज्जितं । सिद्धे तदनपेक्षेस्मिन्नन्यत्राप्यन्वयेन किं । व्यतिरेकोपि लिङ्गस्य विपक्षान्नैव लभ्यते । अभावे स न गम्येत कृतयत्नैरबोधनात् ॥ यावत्सर्वविपक्षाणां पर्यन्तो नावधारितः । तावद्धेतोरवृत्तित्वं कस्तस्माज्ज्ञातुमर्हतीति 1 In the margin. 2 Slokavārtika 114.
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy