________________
१. हेतु चिन्ता
S
धर्मता व्याप्तविवक्षिता तदा यत्र धर्मिणि व्यापकोस्ति तत्रैव व्याप्यस्य भावो नान्यत्र। अत्रापि व्याप्यस्यैव + तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तेरेव 7b नाश्रितमव्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेत्यवधार्यते । सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः । साधारणस्य च हेतुत्वं स्यात् प्रमेयत्वस्य नित्येववश्यम्भावादिति । व्यापकस्य तत्र भाव इत्यनेन चान्वय आक्षिप्तो व्याप्यस्य वा तत्रैव भाव इत्यनेन व्यतिरेक आक्षिप्तः ।
यद्वा व्याप्तेर्व्याप्यव्यापकधर्म्मसम्वर्णनं नियतानियतत्वख्यापनार्थं । तेन व्याप्तो हेतुर्भवति न तु व्यापकोऽनियतत्वात् ।
ननु यो धर्मो व्याप्यमन्तरेण भवति स कथं व्यापको व्याप्यासम्बन्धेनाव्यापकत्वात् ।
सत्यं । केवलन्धर्मयोः सामान्येन व्याप्यव्यापकभावो निश्चीयते । यच्चानित्यत्वसामान्यं प्रयत्नानन्तरीयकत्वव्यापकं निश्चितन्तदप्रयत्नानन्तरीयकेपि दृश्यत इति व्यापकोऽनियत उच्यते । अथ प्रयत्नानन्तरीयकस्वभावमेवानित्यत्वं निश्चेतुम्पार्यते तदानयोः परस्परं व्याप्यत्वमिति व्याप्त एव हेतुर्भवति । यदा च यत्र विप्रतिपत्तिस्तदेव साध्यमितरत् साधनमिति न्याय एषः ।
यदि तर्हि "पक्षधर्मस्तदंशेन व्याप्तः' इत्येतावद्धेतुलक्षणं ततः पक्षधर्मत्वन्तदङशव्याप्तिश्चेति द्विरूपो हेतुः स्यादन्यत्र च त्रिरूप उक्तस्तत्कथन्न व्याघात इत्याह ।
१७
तदंशव्याप्तिवचनेनान्वयव्यतिरेकावुक्तौ ।
एतेन अन्वयव्यतिरेकरूपत्वाद् व्याप्तेरिति भावः । तथा हि ( 1 ) य एव येनान्वितो यन्निवृत्तौ च निवर्त्तते स एव तेन व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर्व्याप्तिवचनेनान्वयव्यतिरेकाभिधानन्ततो व्याप्तिवचनेन रूपद्वयाभिधानान्न व्याघात इति । तौ च ज्ञापकहेत्वधिकारान्निश्चितौ । निश्चयश्च तयोर्नेकेनैव प्रमाणेनापि तु यथास्वं यस्य यदात्मीयं प्रमाणं निश्चायकन्तेन । यस्य च यत्प्रमाणन्तदुत्तरत्र वक्ष्यते ।
5
ननु भावरूपत्वाल्लिङ्गस्य कथं व्यतिरेकः ) साध्याभावेऽभावलक्षणोस्य रूपमिति चेत् । न । य एव हि साध्य एव लिङ्गस्य भावः स एव साध्याभावे व्यतिरेकः । तेनान्वयव्यतिरेक (योरपि तादात्म्यं वि) कल्पकल्पितस्तु भेदः । साध्याभावे लिंगस्य निर्वृत्तिधर्मकत्वं व्यतिरेक इत्यपरे । यतश्च यत्र यत्र साधनधर्म्मस्तत्र तत्र साध्यधर्म इत्येवं रूपोन्वयः । तेन यदुच्यते ( कु मा रिल) भट्टेन ॥
1 In the margin.
३