________________
१६
प्रमाणवात्तिकस्ववृत्तिटीका (१।३) तदेकदेशस्तदंशः। पक्षशब्देन समुदायावचनाद् । (व्याप्तं पदं व्याप्तिः।)
व्याप्तं हि तत्र व्यापकस्य भाव एव नापि व्याप्यस्य तत्र भाव एव। एतेन' 421b चान्वयव्यतिरेकनिश्चयावपि (उक्तौ)।
दन्यत्राननुवृत्तेरसाधारणतेति सम्बन्धः। अत्रापि दृष्टान्तो यथा (पार्थो धनुर्द्धर इति सामान्यशब्दोप्ययं)' धनुर्द्धरशब्द: प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिरिह पार्थे हि धनुर्द्धरत्वं सिद्धमेवेति नायोगाशका। तादृशन्तु सातिशयं किमन्यत्राप्यस्ति नास्तीत्यन्ययोगशंकायां श्रोतुर्यदा पार्थो धनुर्द्धर इत्युच्यते तदा सातिशयः पार्थ एव धनुर्द्धरो नान्य इति प्रतीयते। तेनात्रान्ययोगव्यवच्छेदो न्यायप्राप्तः । तथा किं पःस्त्ययं धर्मो न (वेति संशये पक्षधर्म)' इत्युक्ते पक्षस्य धर्म एव नाधर्मः । धर्मश्चाश्रितत्वाद् विशेषणन्तेनायोगो व्यवच्छिद्यते नान्ययोगः। तदंशव्याप्त्यान्ययोगस्य प्रतिपादनेन दृष्टान्ते सन्देहाभावात्। आक्षेप्स्याम इति निर्देक्ष्यामश्चतुर्थे परिच्छेदे (४।१६०)।
तदंशस्तद्धर्म इति तच्छब्देन पक्षः परामृश्यते न धर्मः?।)धर्मस्य धर्मासम्भवात्। तस्य पक्षस्यांशस्तस्यैव साध्यो धर्मः। एकदेशे रूढोडशशब्द: कथं धर्म प्रतिपादयतीति चेदाह। वक्तुरभिप्रायवशादिति । न वस्तुबलेन शब्दानां वाचकत्वं किन्तु वक्तुर्विवक्षावशान्न तदेकदेशस्तदंश इति प्रकृतेन सम्बन्धः (1)
किं पुनरेवमिति चेदाह। पक्षशब्देन समुदायावचनादिति। यदि पक्षशब्देन समुदायोभिहितः स्यात् तदा धर्मर्मिसमुदायात्मकस्य पक्षस्यैकदेशो धर्मात्मकोङशो भवति। उपचरितेन तु पक्षशब्देन धर्येवाभिधीयते (1) तस्य चैकात्मकस्य कुत एकदेशः।
व्याप्तं पदम्व्याप्तिरित्यादिना व्याचष्टे। तस्य पक्षधर्मस्य सतो व्याप्तिों व्याप्नोति यश्च व्याप्यते व्याप्यव्यापकधर्मतया प्रतीतेः। यदा व्यापकधर्मतया विवक्ष्यते तदा व्यापकस्य गम्यस्य भाव एवेति सम्बन्धः। तत्रेति सप्तम्यर्थप्रधानमेतन्नाधारार्थप्रधानं धर्माणां धर्मान्तरत्वाभावात्। तेनायमर्थः (1) यत्र धमिणि व्याप्यमस्ति तत्र सर्वत्र व्यापकस्य भाव एवेति व्यापकधर्मो व्याप्तिः । न त्वेवमवधार्यते व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसंगात् । अव्यापकस्यापि मूर्त्तत्वादेस्तत्र भावात्। नापि तत्रैवेत्यवधार्यते। प्रयत्नानन्तरीयकत्वादेरहेतुस्वापत्तेः। साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात्। यदा तु व्याप्य
1 In the margin.