________________
१. हेतुचिन्ता
पक्षधर्मत्वे तं विशेषणमपेक्षते अन्यत्राननुवृत्तः असाधारणता स्यादिति चेत् । न। अयोगव्यवच्छेदेनं विशेषणात् । यथा चैत्रो धनुर्धर इति । नान्ययोगव्यवच्छेदेन यथा पार्थो धनुर्धर इति आक्षेप्स्यामः। तदा हि वक्तुंरभिप्रायवशात् न
पक्षेण विशेष्यते स पक्षस्यैव भवति। यथा देवदत्तस्य पुत्रः (1) ततोग्यत्राननुवृत्तेरसाधारणता साधारणता न स्यात् । तदडशव्याप्तिविरोध इति यावत् । साधारणतया तदंशव्याप्तिप्रतिपादनात्। ततो यदि पक्षधर्मो न तदंशव्याप्तिरथ तदंशव्याप्तिन पक्षधर्म इति व्याहतं लक्षणमिति ।
ननु यदि साध्यर्मिणि साधनधर्मस्य साध्यव्याप्तिर्न गृहीता तदा हेतोरनैकान्तिकत्वमथ गृहीता किं दृष्टान्ते हेतो (रन्वयेन! कथञ्च पक्षध) 'मस्य तदंशव्याप्तिविरुध्यते साध्यधर्मिण्यपि व्याप्तेः प्रतिपन्नत्वात् । सर्वपदार्थस्य क्षणिकत्वे साध्ये सत्त्वलक्षणस्य वा हेतोः को दृष्टान्तेन्वयः। तस्मात् स्वसाध्यप्रतिबन्धाद्धेतुस्तेन व्याप्तः सिध्यति (1) स च विपर्यये बाधकप्रमाणवृत्त्या साध्यमिण्यपि सिध्यतीति न किंचिदन्यत्रान्वयापेक्षया (1) तत्कथमिदमाशंकितमन्यत्राननवृत्तेरसाधारणतेति।। ___ (सत्यं यद्यपि साध्यमिणि हेतोः)१ साध्यव्याप्तिमन्तरेण नानुमानस्योत्थानन्तथापि दृष्टान्ते साध्यसाधनयोः प्रतिबन्धग्राहकप्रमाणमन्तरेण न साध्यधम्मिण्यपि व्याप्तिः सिध्यतीति तदर्थमिदमाशंकितं ।
यत्तूच्यते कार्यहेत्वपेक्षया स्वभावहेतुविशेषापेक्षयैतदाशंकितं, तत्तु क्षणिकत्वानुमाने सत्त्वापेक्षया। तस्य हि विपक्षबाधकप्रमाणवृत्त्यैव गमकत्वा (दिति तदेतदुत्तरत्र निरूपयिष्या) 'मः। तस्मात् पूर्वगृहीतप्रतिबन्धसांधकप्रमाणस्मृतये हेतोरन्यत्र वृत्तिरपे'क्षणीया।
7a ____एतत्परिहरति नेत्यादिना (1) न अन्यत्राननुवृत्तिः (1) कुतः । अयोगो सम्बन्धस्तद्व्यवच्छेदेन विशेषणात् पक्षस्य। न ह्यन्ययोगव्यवच्छेदेनैव विशेषणम्भवति किन्त्वयोगव्यवच्छेदेनापि। यत्र धमिणि धर्मस्य सद्भावः सन्दिह्यते तत्रायोगव्यवच्छेदस्य न्यायप्राप्तत्वात्। अत्र दृष्टान्तो यथा चैत्रो धनुर्धर इति (1) चैत्रे हि धनुर्धरत्वं सन्दिह्यते किमस्ति नास्तीति । ततश्चैत्रो धनुर्द्धार इत्युक्ते पक्षान्तरमधनुर्द्धरत्वं श्रोतुराकांक्षोपस्थापितं निराकरोत्ययोगव्यवच्छेदोत्र न्यायप्राप्तः।
पराभिमतव्यवच्छेदं निराचिकीर्षन्नाह। नान्ययोगव्यवच्छेदेन विशेषणा
1 In the margin.