________________
१४
प्रमाणवात्तिकस्ववृत्तिटीका (१।३) सिद्धौ नियमा' र्थमपि वचनमाशंक्यते। सजातीय एव सत्त्वमिति विजातीयाद् , व्यतिरेकीसिद्धस्य साध्याभावेऽसत्त्ववचनं यथा ।। सामर्थ्यादर्थप्रतिपत्तिगौरवपरिहारार्थमपि पक्ष (धर्म)वचनम् । लौ
च दपि प्रयोजनं सम्भाव्यत इति मन्यमानः सिद्धान्तवाद्याह । सिद्धे तदडशव्याप्त्या दृष्टान्तर्मिणि सत्त्वे पुनर्मिणो वचनन्दृष्टान्तमिण एव यो धर्मः स हेतुरिति नियमार्थमाशंक्यते। ततश्च चाक्षुषत्वादय एव हेतवः स्युर्न कृतकत्वादय इत्यनिष्टमेव स्यात्। तस्मादुपचारः कर्त्तव्य इति।
किं पुनः क्वचित् त र्क शा स्त्रे दृष्टं नियमार्थम्वचनमित्यत आह। सजातीय एवेत्यादि । तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये स हेतुरित्यत्रा चा.र्वी ये
हेतुलक्षणे। सजातीय एव सत्त्वमित्यवधारणेन सिद्धेपि विजातीयाद विपक्षाद्धेतो6b य॑तिरेके यदेत'दसंस्तदत्यय इति साध्याभावेऽसत्त्ववचनं तन्नियमार्थमा चा र्ये ण
व्याख्यातमसत्येव नास्तिता यथा स्यान्नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवचनम्भावनियमार्थमाशंक्यते।
नन्वपक्षधर्मस्याहेतुत्वान्न नियमार्था शङ्का। यतो व्याप्तस्य हेतुत्वं न चान्यधर्मिस्थेन साध्यधर्मेणान्यर्मिस्थः साधनधर्मो व्याप्तस्तस्मात्तदंशव्याप्तहेतुवचनसामर्थ्यादेव साध्यमिपरिग्रहो' भविष्यतीत्यत आह । सामर्थ्यादित्यादि। अनन्तरोदितात् सामर्थ्यादर्थस्य साध्यमिपरिग्रहलक्षणस्य भवति प्रतीतिः पटुधियां श्रोतृणां किन्त्वशब्दकमर्थं स्वयमनुसरतां प्रतिपत्तिगौरवं स्यात् । अत उपचारमात्रात् स्वयमशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्यनेन पक्षधर्म इति समाननिर्देशात् प्रतिपत्तिगौरवं च परिहृतम्भवति । च शब्देनैतदाह। ये परोपदेशमाकांक्षन्ति तैरयमर्थो लक्षणवचनाद् बोद्धव्य इति । ,
( यथालक्षणं प्रतीतेरपक्षधर्मो न हेतुरिति कुत इयमाशङ्का। ततस्तेषां लक्षणानुसारिणां नियमाशंकापरिहारार्थञ्चोपचारकरणमिति । इह व्यवच्छेदफलत्वाच्छब्दप्रयोगस्यावश्यमेवावधारयितव्यं (1) षष्ठीसमासाच्च पक्षधर्म इति नान्यस्समासस्सम्भवति। तथा च पक्षस्यैव धर्म इत्येवमवधारणात् तदंशव्याप्तिविरुध्यत इति विरुद्धलक्षणतामुद्भावयन्नाह।'
( पक्षस्य धर्मत्वे तम्पक्षं विशेषणमन्यतो व्यवच्छेदमपेक्षत इति । तद्विशेषणापेक्षस्य धर्मस्यान्यत्र पक्षीकृतादन्यस्मिन सपक्षेऽननवत्तिः। तथा हि यः
1 Stan-pahi-phyir.