________________
प्रमाणवार्तिकस्ववृत्तिटीका ( ११३० )
एवं ज्ञाततद्भावस्य ह्यर्थापत्त्याऽनित्यत्वाभावे कृतकत्वाभाव इति भवति । न हि स्वस्याभावे भावो भवति । अभेदात् । अन्यथा तद्भावे भवतीत्येव न स्यात् । तथा हि तदभावेऽभाव इत्युक्तम् । एवं तद्भावतावेदनेऽयमस्य स्वभाव इति तदभावे न भवति । अन्यथाऽयोगादिति तत्स्वभावताप्रतिपत्त्याऽन्वयस्मृतिर्भवति ।
८२
युक्ता । जन्म चेन्न तदा स्थितिस्तस्याद्वितीयादिक्षणभावित्वात् । तत्राप्येवमिति सर्वत्रोत्पत्तिरेव न स्थितिरिति क्षणिकत्वमेव । उत्पत्तिश्च हेतुकृतेति तत्रैव कृतकत्वं । न स्थितौ । तस्मात् कृतकत्वस्याक्षणिकत्वविरुद्धत्वान्नानैकान्तिकत्वं । विस्तरेण चास्य कृतकत्वस्य क्षणिकत्वव्याप्तिनैं रा त्म्य सिद्धा व' भिहितेति तत्रैवावगन्तव्या ।
तस्मात् सत्त्वानन्तर्भूतस्यापि कृतकत्वस्य व्याप्तिः प्रमाणदृष्टा । तदाहास्य स्वभावस्तन्मात्रानुबन्धी प्रमाणदृष्टस्तद्भावनियमात् । कृतकभावेऽवश्यमनित्यताभावनियमादिति ।
एवं ज्ञातत बुभावस्यानित्यस्वभावं कृतकं ज्ञातवतः पुंसोर्थापत्या साध्यस्याfreeवस्याभावे कृतकन्न भवतीत्येवंनिश्चयो भवतीति । यस्मान्नहि स्वस्यात्मभूतस्यानित्यत्वस्याभावे भावो भवति । तदात्मभूतं कृतकत्वम्भवति । किं कारणम् (1) अभेदात् साध्यसाधनयोः । अन्यथेति यद्यनित्यत्वाभावे कृतकत्वम्भवेत् । तदा तद्भावे कृतकत्वाभावेऽवश्यमनित्यत्वम्भवतीत्येव न स्यात् । तथेति यथा साधर्म्यं प्रयोगे वैधर्म्यगतिस्तथा वैधर्म्यप्रयोगेन्वयस्मृतिर्भवतीति वक्ष्यमाणेन सम्बन्धः । तदभाव इति नित्यत्वाभावे कृतकत्वन्न भवत्यवश्यमित्युक्ते । तत एव वैधर्म्यप्रयोगात् तद्भावतावेदिनः । साधनस्य साध्यस्वभावतावेदिनः पुंसः । कथन्तद्भावतां वेत्तीति चेदाह । तथा हीत्यादि । अयमनित्यत्वाख्यो धर्मोस्य कृतकत्वस्य स्वभावो येन तदभावे कृतकत्वन्न भवति । अन्यथेति (1) अनित्यत्वं यदि कृतकस्य स्वभावो न भवेत् । तदा तदभावे कृतकत्वन्न भवेदित्यस्यायोगात् । इति हेतोस्तत्स्वभावताप्रतिपत्त्या कृतकस्यानित्यस्वभावतोप्रतिपत्त्यान्वयस्मृतिर्भवति ।
एतदुक्तम्भवति । य एव हेतोः साध्य एव भावः स एव विपक्षेऽभाव इत्यन्वयव्यतिरेकयोस्तादात्म्यमन्योन्यव्याप्तिश्चातो हेतावन्वयप्रतीत्या व्यतिरेकप्रती
तिर्व्यतिरेकप्रतीत्या चान्वयप्रतीतिरनुमानमेव ।
तेन यदुच्यते ।
1 Pramānavārtika 1224