SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३. व्याप्तिचिन्ता ८३ तथा यत्र धूमः तत्राग्निरित्युक्ते कार्य धूमो दहनस्य । तेन धूमे सति अवश्यमग्निर्भवति। अन्यथाऽर्थान्तरस्य तदनु'बन्धनियमाभावात् स्वातन्त्र्यं भावस्य 43 Ia स्यात् । अतः तदभावेऽपि स्वभावस्य वैकल्यात् नाभावः स्यात् । सति कार्येऽवश्यं कारणं भवति । इदमेव कारण (स्य) कारणता अर्थान्तर भावे स्वभावोपधानम् । कार्यस्याऽपि तद्भाव एव भावः। तच्चाऽस्ति धूमे। तस्मात् कार्य धूम इत्येवमन्वयेन विदिततत्कार्यत्वस्य दहनाभावे धूमो न भवतीति अर्थापत्या भवति व्यतिरेकप्रतिपत्तिः। तथा असत्यग्नौ धूमो न भवतीत्युक्ते—मेऽवश्य मग्निर्भवतीति अर्थाद् अन्वयप्रतिपत्तिर्भवति। अन्यथा तदभावे किन्न भवेद् । ननु च नित्यानित्यार्थकार्यत्वाभावेऽपि तयदभावे श्रवणज्ञानं न "सामर्थ्य मिच्छतः कीर्तेन ष्टं द्वित्वावधारणमिति (न्यायमंजरी? )तदपास्तं। यद्वा नैवैतत् प्रमाणं केवलं संकेतवशाद् अन्वयमुखेन व्यतिरेकमुखेण (?न) वा प्रयुक्तमेकं वाक्यमुभयं गमयतीत्यदोषः। स्वभावहेतावन्यतरप्रयोगादुभयगतिमुक्त्वा कार्यहेतावाह। तथेत्यादि । यत्रेति सर्वनाम्ना सर्वोपसंहारस्तत्राग्निरवश्यमित्युक्तेऽस्मादेवान्वयवचनात् कार्यन्धमो दहनस्येत्येवन्निश्चयो भवति। किङ्कारणं (1) येन धमेऽवश्यमग्निर्भवति। अन्यथा यदि न कारणमग्निधूर्मस्य तदार्थान्तरस्याग्नेस्तदनुबन्धनियमाभावात् । धूमे योनुबन्धो व्यापनं तन्नियमस्याभावात्। ततश्च स्वातन्त्र्यम्भावस्य धूमस्व- 32a भावस्य स्यात् । अत इति स्वातन्त्र्यात् तदभावेप्यग्न्यभावेपि धूमस्वभावस्य वैकल्यान्नाभावः स्यान्न चैवन्तस्मात् कार्यो धूम एष्टव्यः। यतः कार्ये तु धूमेभ्युपगतेऽवश्यन्तत्र कारणमग्निर्भवति। इदमित्यस्यैव समर्थनं। अर्थान्तरभाव इति कार्याभिमतस्य भावे स्वभावोपधानं स्वरूपप्रत्युपस्थानं। कार्यस्यापि तद्भाव एव कारणभाव एव भावः कार्यत्वं। तच्च कारणभाव एव भावित्वमस्ति धूमे। तस्मात् कार्य धूम इत्येवमन्वयेन विदिततत्कार्यत्वस्य पुंसो दहनाभावे धूमो न भवतीत्यर्थाद् भवति। अधुना वैधhणान्वयगतिमाह। तथेत्यादि। असत्यग्नौ धूमो न भवतीत्युक्तेऽस्माद् व्यतिरेकवचनाद् विदिततत्कार्यत्वस्य धूमेऽवश्यमग्निर्भवतीत्येवमर्थात् अन्वयप्रतिपत्तिर्भवति । अन्यथा यदि वैधर्म्यवचनेनाग्नेः कार्यं धूम इत्येतन्न कथ्यते तदभावेऽग्न्यभावे किन्न भवेद् धूमो भवेदेवेति व्यतिरेकनिश्चयं एव न स्यात् । तस्मात् स्थितमेतत् (1) सत्यर्थान्तरत्वे यदभावे . यदवश्यन्न भवति तत्तस्य कार्यमतश्च म्यतिरेककथनादन्वयो गम्यत इति।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy