________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १1३० )
भवति । न वै न भवति । तयोरेव ततः संशयात् । अन्यथाऽभावेन निश्चितात् कथं तद्भावपरामर्शेन संशयः स्यात् ? केवलं भावनिश्चयाभावात् नास्तीत्युच्यते ।
८४
अत्र परो व्यभिचारमाह । ननु चेत्यादि । नित्यानित्यार्थयोः कार्यन्नित्यानित्यार्थकार्यन्तद्भावस्तत्त्वं । तस्याभावेपि । तथा हि श्रवणज्ञानं शब्दस्यैव धर्मत्वादसाधारणन्तत्र न ज्ञायते किन्नित्यस्य सतः शब्दस्य कार्यं श्रवणज्ञानमुतानित्यस्येति । ततश्च न नित्यार्थकार्यत्वं श्रवणज्ञानस्य नाप्यनित्यार्थकार्यत्वन्तथापि श्रवणज्ञानन्न भवति तदभावेपि नित्यानित्यार्थाभावे । तद्व्यतिरेके व्यतिरिच्यत इति यावत् । नित्यार्थाभावे तावन्न भवत्यनित्येषु घटादिष्वभावात् । अनित्याभावेपि न भवति नित्येष्वाकाशादिष्वभावात् । न वै न भवतीति सिद्धान्तवादी । न वै तच्छ्रावणत्वन्नित्यानित्याभावे न भवतीत्येवं शक्यविज्ञातुं । यदि तु तदभावेन भवतीत्येवन्निश्चयः स्यात् तदा तत्कार्यत्वंन्नियमेन स्यात् किन्तु तदभावे न भवतीत्येव नास्ति । किङ्कारणन्तयोरेव नित्यानित्यत्वयोस्ततः श्रावणत्वात् संशयात् । अन्यथा नित्यानित्ये वस्तुन्यभावेन निश्चिताच्छ्रावणत्वात्कथन्तद्भावपरामर्शेन शब्दे संशयः स्यात् । तस्मान्नित्यानित्याभ्यां व्यावृत्तिरेव नास्ति श्रावणत्वस्य ।
कथन्तर्ह्यसाधारणत्वाच्छ्रावणत्वं नित्यानित्ययोर्नास्तीत्युच्यत इत्याह । केवलन्त्वित्यादि । नित्यानित्येषु श्रावणत्वस्य भावनिश्चयाभावात् । श्रावणत्वं नित्यानृत्ययोर्नास्तीत्युच्यते ।
नन्वनित्यादिके साध्ये यदि श्रावणत्वं सपक्षविपक्षयोर्दृष्टं स्यात् । स्याच्छब्दे श्रावणत्वात् सन्देहः । प्रमेयत्वादिव । न चैतत् सपक्षाविपक्षयोर्दृष्टमतो 32b प्रतिपत्तिरिति भद्यो त क रौ । अथ शब्दवस्तु कदाचिन्नित्यमनित्यम्वा व'स्तु
धर्मश्च श्रावणत्वन्तेनातः सन्देह उच्यते ।
तदयुक्तं । एवं हि वस्तुधर्मत्वस्यैव सन्देहहेतुत्वं स्यान्न श्रावणत्वस्येति । अत्रोच्यते । यदि हि यत्र यत्र श्रावणत्वन्तत्र तत्र नित्यानित्ययोरभाव इति प्रतिपन्नं स्यात् ततो नित्यानित्ययोरप्रतिपत्तिः स्यात् । न चानित्यादियुक्ते घटादौ श्रावणत्वस्याभाव इति शब्देप्यभावस्तेन श्रावणत्वात् तत्र सन्देह एव ।
ननु श्रावणत्वं श्रवणज्ञानंप्रति सामर्थ्यन्न च नित्यस्य सामर्थ्यमस्त्यर्थक्रियाविरोधात् ( 1 ) तत्कथमतः सन्देहः ( 1 ) अनित्यत्वस्यैव निश्चयादिति ।
एवम्मन्यते । यदि सामर्थ्यमात्रं हेतुस्तदा सत्त्वमेव तदिति न काचित् क्षतिः ( 1 ) (1) तस्य सपक्षसाधारणत्वादेवं प्रमेयत्वादिष्वपि द्रष्टव्यं । अथ श्रवणज्ञानंप्रति यत्सामर्थ्यन्तद्धेतुस्तच्च न क्वचिदनित्यत्वव्याप्तं सिद्धमिति कथमतोऽनित्यत्वसिद्धिरसाघारणत्वादयंशब्द एव तदनित्यत्वव्याप्तं सिद्धं । तेनैव हि बाधकेन