________________
३. व्याप्तिचिन्ता
८५
यदा पुनः दृष्टान्तेन अग्निधूमयोः हेतु फल भावो न दर्शितः, तदा यत्र धूमः तत्राग्निरित्येव न स्यात् प्रतिबन्धाभावात्। अग्न्यभावे धूमो नास्तीति अर्थाद् व्यतिरेकसिद्धिः। तथा वैधhण अभावासिद्धेः अन्वयस्मृतिः व्यतिरेकः स्यात् । एकसद्भावेऽन्यप्रसिद्धयर्थं तदभावेऽसम्भवात् दृष्टान्तेन यथोक्त स्वभावप्रतिबन्धोऽयमेव प्रदर्शितः॥
हेतुस्वभावाभा(वो)त: प्रतिषेधे च कस्यचित् ।
हेतुः तावेव हि निवर्तमानौ स्वप्रतिबद्धं निवर्तयत इति कस्यचिदर्थस्य प्रतिषेधमपि साधयित'कामेन हेतोः व्यापकस्य स्वभावस्य च निवत्तिहँतत्वेनाऽख्यया 43 Ib अप्रतिबन्धे हि कथं एकनिवृत्याऽन्यनिवृत्तिसाधनम्।
युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥३१॥
प्रमाणेनानित्यत्वस्य तत्र सिद्धत्वाच्छावणत्वस्य वैयर्थ्यं स्यात् । एवं स चासाधारणहेतूनामगमकत्वं बोद्धव्यं ।
तस्मात् स्थितमेतत् (1) कार्यहेतौ दृष्टान्ताभ्यां साध्यसाधनयोर्हेतुफलभावः कथनीयो न तु दर्शनादर्शनमात्र। एवं ह्यर्थापत्त्याऽन्यतरेण द्वितीयप्रतीतिर्भवेत् । अन्यथा न स्यादित्याह। यदा पुनरित्यादि। तदा यत्र धूमस्तकाग्निरित्येव न स्यादित्यन्वय एव न स्यात् प्रतिबन्धाभावात् । यदा चान्वय एव न सिद्धस्तदा कुतोग्न्यभावे धूमो नास्तीत्यर्थाद् व्यतिरेकसिद्धिः। तथा वैधयेणादर्शनमात्रस्य ख्यापनात् साध्याभावे हेत्वभावासिद्धेः कुतस्तद्वारेणान्वयस्मृतिः। यथोक्त इति तादात्म्यतदुत्पत्तिलक्षणः। एकसद्भावे कार्यस्वभावलिङ्गस्य सद्भावेऽन्यप्र'सिद्ध्यर्थं कारणस्य स्वभावस्य च लिङ्गिनः प्रसिद्धयर्थं । तदभावे यथोक्तप्रतिबन्धाभावे सत्येकसदभावेऽन्यप्रसिद्धरसम्भवात ॥
हेतुस्वभावाभाव इति हेत्वभावो व्यापकस्वभावाभावश्च। अत इत्यनन्तरोक्तात् कारणात् कस्यचित् कार्यस्य व्याप्यस्य च प्रतिषेधे। चकारात् प्रतिषेधव्यवहारे च साध्ये। हेतुलिङ्ग। किङ्कारणं (1) यस्मात् तावेव हि कारणव्यापकौ नि वर्तमानौ स्वप्रतिबद्धं कार्यं व्याप्यं च स्वभावं निवर्तयत इति कस्यचिदर्थस्य कार्यस्य व्याप्यस्य वा प्रतिषेधमपि साधयितुकामेन। अपिशब्दाद् व्यवहारमपि (1) हेतोः कारणस्य व्यापकस्य च स्वभावस्य निवृत्तिर्हेतुत्वेनाख्येया। किङ्कारणं। अप्रतिबन्धे हीत्यादि। न च ताभ्यामन्यः प्रतिबन्धोस्तीति भावः। युक्तो न्याय्य उपलम्भो यस्य स तथादश्यस्येत्यर्थः । तस्य